| YouTube Channel

अनुदारः (anudAraH)

 
E Bharati Sampat
Sanskrit
(वि) उदारः। १.कृपणः, लोभी २.महाकाररहितः। ३.न उदारः यस्मात् अत्यन्तत्यागशीलः, अधिकदानशीलः। ४.अनुगतः दारान् पत्न्याः अनुसर्ता ‘यस्मिन् प्रसीदसि पुनः भवत्युदारोऽनुदारश्च’ काव्यप्र०४.५९। ५.अनु दारा यस्य अनुरूपपत्नीयुक्तः।
Wordnet
Sanskrit
Synonyms:
कृपणः, अनुदारः
noun
यः कार्पण्यं करोति।
"रमेशः अतीव कृपणः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
अनुदारः, त्रि, (न उदार इति नञ्समासः नास्तिउदारो यस्मात् इति वा ।) अतिशयदाता ।अदाता अतिमहान् अमहान् अनुगत-दारः यथा, “यस्मिन् प्रसीदसि पुनः भव-त्युदारोऽनुदारश्च” इति मम्मटभट्टः