| YouTube Channel

अनुत्तरः (anuttaraH)

 
E Bharati Sampat
Sanskrit
(वि) नास्ति उत्तरः यस्मात् १.मुख्यः, श्रेष्ठः, सर्वोत्तमः। ‘अनुत्तराणि विलसितानि’ दशकु० २.निरुत्तरः, प्रत्युत्तरहीनः। ‘अनुत्तरः पुनः। निरुत्तरे श्रेष्ठे च’ हैमः। ३.न उत्तरति, चलति निश्चलः, स्थिरः। ४.न उत्तरः। अपकृष्टः, निम्नः। (न) उत्तरम् ५.उत्तरस्य अभावः, उत्तरादानम् ‘भवत्यवज्ञा भवत्यनुत्तरात्’ नैष०९.२५। (स्त्री) उत्तरा दिक् ६.दक्षिणदिक्