| YouTube Channel

अनुजीवी (anujIvI)

 
Apte Hindi
Hindi
अनुजीवी
पुं*
- अनुजीव+णिनि
"परावलम्बी, सेवक, अनुचर"
E Bharati Sampat
Sanskrit
(वि) (अनुजीविन्) अनुजीवितुं शीलमस्य अनु+जीव(प्राणधारणे)+णिनिः। ‘सुप्यजातौ णिनिः०’ ३.२.७८। १.आश्रितः, पराधीनः। २.भृत्यः, सेवकः, अर्थी ‘सेवकार्थ्यनुजीविनः’ अमरः। ‘न वञ्चनीयाः प्रभवोऽनुजीविभिः’ किरा०१.४।
Wordnet
Sanskrit
Synonyms:
भृत्यः, अनुचरः, परिचरः, परिचारकः, प्रेष्यः, किङ्करः, चेटकः, चेटः, किभ्करः, दासः, दाशः, भृतकः, कर्मकरः, कर्मकारी, परिजमः, वेतनजीवी, सेवोपजीवी, सेवाजीवी, भृतिभुक्, भृतिजीवी, अनुजीवी, वियोज्यः, प्रैष्यः, भरणीयः, वैतानिकः, शुश्रूषकः, चेडः, चेडकः, पार्श्विकः, पार्श्वानुचरः, सैरिन्ध्रः, अर्थी, भुजिष्यः, दासेरः, दासेयः, गोप्यः, गोपकः, सेवकः
noun
यः सेवते।
"मम भृत्यः गृहं गतः।"
शब्दकल्पद्रुमः
Sanskrit
अनुजीवी, [न्] त्रि, (अनुजीवति, अनु + जीव् +णिनि ।) दासः तत्पर्य्यायः सेवकः अर्थी ।इत्यमरः
अनुचरः इति हलायुधः
(“अनु-जीविना पराधिकारचर्च्चा कर्त्तव्या” इतिहितोपदेशः ।)