| YouTube Channel

अनुगतः (anugataH)

 
E Bharati Sampat
Sanskrit
(वि) अनु+गम्लृ(गतौ)+क्तः(कर्मणि)। ‘निष्ठा’ ३.२.१०२। १.पश्चाद्गतः, सहगतः। ‘आनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय’ रघुः१२.१०२। २.अनु+गम्लृ+क्तः(कर्तरि) ‘गत्यर्थाकर्मक०’ ३.४.७२। व्याप्तः, सङ्गतः। ‘शिवमिवानुगतं गजचर्मणा’ किरा०५.२। ३.अनुसारी, आज्ञापालकः। ‘रामादेशादनुगता सेना तस्यार्थसिद्धये’ रघुः१५.९। ४.अनुरूपः, आनुलोम्यं गतः। ‘मृदङ्गानुगतसङ्गीतमधुरः पौराणां समुच्चरति चर्चरीध्वनिः’ रत्ना०१। ५.समानः, सदृशः। ६.अधीनः, विधेयः। ‘स्वमतमनुगतस्त्वं तु मह्यं ददासि’ मुद्रा०५.१९। ७.नियतः। ‘न तदनुगतमेव अभिधावलम्बने नापि तस्य भावात्’ काव्यप्र०५.१३७.४।
शब्दकल्पद्रुमः
Sanskrit
अनुगतः, त्रि, (अनुगच्छति अनु + गम् + कर्त्तरिक्तः ।) अनुगः आश्रितः अधीनः पश्चाद्गतः ।यथा, --“आगच्छद् यत्र काकुत्स्थः स्वर्गाय समुपस्थितः ।विमानवरकोटीभिर्देवैरनुगतस्तदा”
इति रामायणं
नियतः यथा, “न तदनु-गतमेव अभिधावलम्बने नापि तस्य भावात्” ।इति पञ्चमोल्लासे काव्यप्रकाशकारः