| YouTube Channel

अनुगः (anugaH)

 
Apte Hindi
Hindi
अनुगः
पुं*
- अनु+गम्+ड
"अनुचर, आज्ञाकारी सेवक, साथी "
E Bharati Sampat
Sanskrit
(वि) अनुगच्छति अनु+गम्लृ(गतौ)+डः। ‘अन्यत्रापि दृश्यते’ वा०३.२.४८। १.अनुचरः, सेवकः, दासः। ‘तद्भूतनाथानुग नार्हसि त्वम्’ रघुः२.५८। २.सहचरः, सहायः। ३.अनुपदः, पश्चाद्गामी ‘गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा’ मनुः९.१४२। ४.अनुसृत्य आगतः, अनुसारी ‘गीतानुगं वारिमृदङ्गवाद्यम्’ रघुः१६.६४। (न) ५.पश्चात्, अन्वक् ‘अन्वगन्वक्षमनुगे’ अमरः।
शब्दकल्पद्रुमः
Sanskrit
अनुगः, त्रि, (अनुगच्छति, अनु + गम् + डः ।)पश्चाद्गामी अनुचरः अनुसरः तत्पर्य्यायः ।अन्वक् अन्वक्षः अनुपदः इत्यमरः
सेवकः दासः इति हलायुधः
(“येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत” ।इति महाभारते ।)