| YouTube Channel

अनुकूलः (anukUlaH)

 
Apte Hindi
Hindi
अनुकूलः
पुं*
- अनु+कूल्+अच्
निष्ठावान तथा कृपालु पति नायक का एक भेद
E Bharati Sampat
Sanskrit
(पुं) १.विष्णुः, परमात्मा सर्वेषाम् आत्मत्वेन अनुकूलः। ‘अनुकूलः शतावर्तः’ वि०स०। २.नायकभेदः, एकस्यामेव नायिकायम् अनुरक्तः नायकः। ‘अनुकूलस्त्वेकनिरतः’ सा०द०३.३७। (वि) अनुकूलयति अनुकूलं करोति अनुकूल+णिच्+अच् ।अप्रतिकूलः, सहायः। ‘मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम्’ मेघः१.९। २.स्नेहपूर्णः, प्रीतिपूर्णः। ‘सदानुकूलेषु हि कुर्वते रतिम्’ किरा०१.५। ४.दयालुः। ५.योग्यः, अनुरूपः। ‘कुशलविरचितानुकूलवेषः’ रघुः५.७६। ६.हितकरः, सुखकरः। ७. (न) ८.अर्थालङ्कारभेदः। ‘अनुकूलं प्रतिकूल्यमनुकूलानुबन्धि चेत्’ सा०द०१०.६४। ९.साहाय्यं १०.प्रीतिः। (स्त्री) ११.दन्तीवृक्षः। १२.वृत्तभेदः। ‘स्यादनुकूला भतननगाश्चेत्’
Wordnet
Sanskrit
Synonyms:
अनुकूलः
noun
एकः काव्यालङ्कारः।
"अनुकूले प्रतिकुलेन अनुकूलस्य पदार्थस्य सिद्धिः प्रदर्श्यते।"
Synonyms:
मित्रम्, सुहृत्, सखा, बन्धुः, वयस्यः, स्निग्धः, स्नेही, बान्धवः, सहायः, अनुरागी, प्रणयी, हितः, हितकारी, प्रियकृत्, सजूः, अनुकूलः, विभावः, केलिकरः, सङ्गी
noun
यः सर्वदा सहायकः तथा शुभचिन्तकः।
"मित्रस्य परीक्षा आपत्तिकाले भवति।"
शब्दकल्पद्रुमः
Sanskrit
अनुकूलः, त्रि, (अनुकूलं करोति, अनुकूल + करो-त्यर्थे णिच् पचाद्यच् ।) अप्रतिकूलः दक्षिणः ।सहायः यथा, “मयानुकूलेन नभस्वतेरितं” ।इति श्रीभागवतं
अनुकूलः,
पुं,
(अनुकूलयति केवलस्वपत्नीं सुखयति, अनुकूल + करोत्यर्थे णिच् अच् ।) पतिभेदः ।तस्य लक्षणं ।“सदा पराङ्गनापराङ्मुखत्वे सति स्वस्त्र्यनुरक्तत्वं” ।इति रसमञ्जरी
(यथा साहित्यदर्पणे, --“एकस्यामेव नायिकायामासक्तोऽनुकूलनायकः ।किन्त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियोनान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्या-महे दुःस्थितं” ।)