| YouTube Channel

अनुकामीनः (anukAmInaH)

 
E Bharati Sampat
Sanskrit
(वि) कामस्य अभिलाषस्य सदृशम्, अनुकामं गच्छति अनुकाम+गम्लृ(गतौ)+खः। ‘अवारपारात्यन्तानुकामं गामी’ ५.२.११ स्वेच्छागमनशीलः, कामङ्गामी ‘कामङ्गाम्यनुकामीनः’ अमरः। ‘अनुकामीनतां त्यज’ भट्टिः।
शब्दकल्पद्रुमः
Sanskrit
अनुकामीनः, त्रि, (कामस्य इच्छायाः सदृशं, सादृ-श्यार्थे अव्ययीभावः, ततो गच्छतीत्यर्थे खः तस्यईनः ।) कामङ्गामी स्वेच्छागमनशीलः इत्य-मरः