| YouTube Channel

अनुकम्प्यः (anukampyaH)

 
E Bharati Sampat
Sanskrit
(वि) अनुकम्पितुम् अर्हः। अनु+कपि(चलने)+यत् ‘पोरदुपधात्’ ३.१.९८। १.कृपायोग्यः, दयार्हः। ‘किं तन्न येनासि ममानुकम्प्या’ रघुः१८.७४। २.द्रुतगामी, वेगवान्
शब्दकल्पद्रुमः
Sanskrit
अनुकम्प्यः, त्रिः (अनुकम्पामर्हति अनुकम्पा +अर्हार्थे यत् अथवा अनु + कम्प् णिच् + कर्म्मणियत् ।) तरस्वी वेगवान् इति हारावली
कृपायोग्यः दयापात्रं ।“अनुकम्प्योऽनुकम्प्यश्च जातः जीवति” ।इति काव्यप्रकाशः
(“दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्यां” ।)इति कुमारसम्भवे ।)