| YouTube Channel

अनु-रुध (anu-rudha)

 
धातुप्रदीपः
Sanskrit
अनु-रुधँ अनो-रुध कामे
- अनौ उपसर्गे रुधेः कामवृत्तेर्दिवादित्वमात्मनेपदित्वञ्च अनुरुध्यते अनुरुरुधे अनुरोद्धा अनुरोधः 69
क्षीरतरङ्गिणी
Sanskrit
अनु-रुधँ अनो-रुध कामे
- अनुपूर्वो रुधिर् इच्छार्थे दिवादिः अनुरुध्यते नेह-रुणद्धि रोधयति 63
धातुवृत्तिः
Sanskrit
अनु-रुधँ अनो-रुध (अर्थः) कामे
रुधेरनूपसृष्टस्य कामे वृत्तस्य दिवादित्वमात्मनेपदित्वं ( अनुरुध्यत ) इत्यादि पूर्ववत् रणद्धीत्यावरणे रुधादौ 66