| YouTube Channel

अनीश्वरः (anIzvaraH)

 
E Bharati Sampat
Sanskrit
(वि) नास्ति ईश्वरः यस्य १.ईश्वररहितः। २.न ईश्वरः, असमर्थः। ‘शयिता सविधेप्यनीश्वरा’ भामिनी २.१८२। ३.परमात्मसम्बम्धरहितः। ‘ध्यानेनानीश्वरान् गुणान्’ मनुः६.७२। ४.स्मामिशून्यः। (न) ५.नियन्तृशून्यं जगत् - सां०। ‘जगदाहुरनीश्वरम्’ गीता १६.८।