| YouTube Channel

अनीशः (anIzaH)

 
Apte Hindi
Hindi
अनीशः
पुं*
- -
विष्णु
E Bharati Sampat
Sanskrit
(पुं) नास्ति ईशः स्वामी नियन्ता यस्य १.विष्णुः, सर्वेश्वरः। ‘अनीशः शाश्वतः स्थिरः’ वि०स०। २.न ईशः स्वामी अस्वामी ‘भजेरन् पैतृकं रिक्थमनीशास्ते हि जीवतोः’ मनुः९.१०४। (वि) ईशः यस्य ३.अस्वतन्त्रः, पराधीनः। ४. अशक्तः, असमर्थः। ५.स्वामिशून्यः। ‘सर्वप्रभुरनीशस्त्वमेकः’ रघुः१०.२०।
शब्दकल्पद्रुमः
Sanskrit
अनीशः,
पुं,
(नास्ति ईशः नियन्ता यस्य सः ।)विष्णुः इति तस्य सहस्रनाममध्ये पठितः
ईश्वरभिन्ने त्रि यथा, --“अनीशो वा कुर्य्याद्भुवनजनने कः परिकरं” ।इति पुष्पदन्तः