| YouTube Channel

अनिर्व्वचनीयः (anirvvacanIyaH)

 
शब्दकल्पद्रुमः
Sanskrit
अनिर्व्वचनीयः, त्रि, (निर् + वच् + कर्म्मणि अनीयः, ततो नञ्समासः ।) निर्व्वचनायोग्यः अनि-र्व्वाच्यः वाक्यागम्यः यथा, “सदसद्भ्यामनिर्व्वच-नीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्-किञ्चिदिति वदन्ति” इत्यज्ञानलक्षणे वेदान्त-सारः