| YouTube Channel

अनिगीर्ण्ण (anigIrNNa)

 
वाचस्पत्यम्
Sanskrit
अनिगीर्ण्ण
त्रि०
निगीर्णः अनपह्नुतभेदे, “विषयस्यानि-गीर्णस्यान्यतादात्म्यप्रतीतिकृत् सारोपा स्यादिति” सा० द० ।(अनिगीर्णस्य) अनपह्नुतभेदस्य (विषयस्य) आरोपविषयस्यआरोप्यमाणस्य, (अन्यस्य) आरोपाश्रयस्य तादात्म्यमभेद-स्तत्प्रतीतिकृत् तद्बोधसाधनं वृत्तिः सारोपा लक्षणेतितदर्थः यथा अश्वः श्वेतो धावतीत्यादौ श्वेतगुणवानश्वोऽन-पह्नुतभेदः सन् स्वसमवेतश्वेतगुणतादात्म्येन प्रतीयते इत्य-तस्तत्र सारोपा लक्षणा