| YouTube Channel

अनादृतः (anAdRtaH)

 
E Bharati Sampat
Sanskrit
(वि) आदृतः। १.तिरस्कृतः, अवमानितः।‘अनादृतमवाज्ज्ञातं मानितम्’ हैमः। ‘अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः’ मनुः२.२३४। (न) आदृतम् आ+दृङ्(आदरे)+ क्तः(भावे) ‘नपु० भावे क्तः’ ३.३.११४। आदृतम् आदरः। २.आदराभावः, तिरस्कारः, अवमानः।
शब्दकल्पद्रुमः
Sanskrit
अनादृतः, त्रि, (आ + दृ + कर्म्मणि क्तः, आदृतःनञ्समासः ।) निरादरः अवज्ञातः अव-मानितः इति हेमचन्द्रः
(“सव्व तस्यादृता धर्म्मा यस्यैते त्रय आदृताः ।अनादृतास्तु यस्यैते सर्व्वास्तस्याफलाः क्रियाः”
इति मनुः ।)