| YouTube Channel

अनादिः (anAdiH)

 
E Bharati Sampat
Sanskrit
(पुं) नास्ति आदिः कारणं यस्य १.परमात्मा, विष्णुः। ‘अनादिर्भूर्भुवः’ वि०स०। २.न आदिः प्राथमिकः यस्मात् हिरण्यगर्भः, ब्रह्मा (वि) आदिरहितः, उत्पत्तिशून्यः। ‘जगदादिरनादिस्त्वम्’ कुमा०२.९। ३.अनादिषट्कम् - जीवः, ईशः, शुद्धचैतन्यम्, जीवेश्वरभेदः, माया, मायाचैतन्यसम्बन्धः। ‘जीव ईशो विशुद्धा चित् तेषां भेदः परस्परम् अविद्या तच्चितोयोगः षडस्माकमनादयः ॥’ वेदान्तर०।
शब्दकल्पद्रुमः
Sanskrit
अनादिः, त्रि, (नास्ति आदिः कारणं यस्यसः ।) आदिरहितः उत्पत्तिशून्यः स्वयम्भूः ।यथा, --“अनादिरादिर्गोविन्दः सर्व्वकारणकारणं” ।इति ब्रह्मसंहिता