| YouTube Channel

अनातुरः (anAturaH)

 
E Bharati Sampat
Sanskrit
(वि) आतुरः रोगी १.अरोगी, रोगरहितः, स्वस्थः। ‘भेजे धर्ममनातुरः’ रघुः१.२१। २.अनुत्सुकः, उदासीनः। ‘अनातुरोत्कण्ठितयोः प्रसिध्यता’ मालवि०३.१५।
शब्दकल्पद्रुमः
Sanskrit
अनातुरः, त्रि, (न आतुरः रोगी नञ्समासः ।)अरोगी यथा, --“तेषामनातुराः पूर्व्वे वातलाद्याः सदातुराः” ।इति चरकः (“भेजे धर्म्ममनातुरः” इतिरषुवंशे ।)