| YouTube Channel

अनहंवादी (anahaMvAdI)

 
E Bharati Sampat
Sanskrit
(वि) (अनहंवादिन्)। अहम् इति गर्वेण वदति अहंवादी अहङ्कारशून्यः, गर्वशून्यः। ‘मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः’ गीता १८.१६। (स्त्री) अनहंवादिनी
शब्दकल्पद्रुमः
Sanskrit
अनहंवादी, [न्] त्रि, (अहमिति गर्व्वं वदति यः, अहं + वद् + णिनि, उपपदसमासः, ततो नञ्-समासः अहमित्यव्ययं ।) गर्व्वरहितः ।“मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।सिद्ध्यसिद्ध्योर्निर्व्विकारः कर्त्ता सात्विक उच्यते” ।इति श्रीभगवद्गीता अनहंवादी गर्व्वरहितः ।इत्याह्निकतत्त्वं