| YouTube Channel

अनपायी (anapAyI)

 
E Bharati Sampat
Sanskrit
(वि) (अनपायिन्) अपायी भवति १.निश्चलः स्थिरः। ‘अनपायिनि संश्रयद्रुमे गजभग्ने’ कुमा०४.३१। २.अपायशून्यः, अनश्वरः, नाशरहितः। ‘अनपायि निबर्हणं द्विषां तितिक्षासममस्ति साधनम्’ किरा०२.४३। (स्त्री) अनपायिनी ‘श्रीरासीदनपायिनी’ रघुः१७.४६।
शब्दकल्पद्रुमः
Sanskrit
अनपायी, [न्] त्रि, (नास्ति अपायः विनाशोऽस्यइति, + अपाय + इनि ।) निश्चलः अपाय-शून्यः अनश्वरः यथा, --“अनपायिभिरस्माभिर्गुप्तायाश्च गृहे प्रभो” ।इति श्रीभागवतं
(“अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी” ।इति कुमारे
)