| YouTube Channel

अनन्यगतिकः (ananyagatikaH)

 
E Bharati Sampat
Sanskrit
(वि) नास्ति अन्या गतिः यस्य अनन्यगति+कप् ‘शेषद्विभाषा’ ५.४.१५४ गत्यन्तररहितः, तन्मात्राश्रयः, उपायान्तररहितः। ‘अनन्यगतिके जने विगतपातके चातके यथारुचि तथा कुरु प्रिय तथापि नान्यं भजे ॥’ उद्भटः।
शब्दकल्पद्रुमः
Sanskrit
अनन्यगतिकः, त्रि, (नास्ति अन्या गतिः यस्य ।समासान्तः कः ।) गत्यन्तररहितः एकाश्रयः ।“अनन्यगतिके जने विगतपातके चातकेयथारुचि तथा कुरु प्रिय तथापि नान्यं भजे” ।इत्युद्भटः