| YouTube Channel

अनन्यः (ananyaH)

 
E Bharati Sampat
Sanskrit
(पुं) नास्ति अन्यत् यस्मात् १.विष्णुः, परमात्मा (वि) अन्यः। २.अन्यभिन्नः, स्वः, स्वयम् ‘अनन्यरतिरासीनः’ मनुः६.४९। ३.अभिन्नः, अविनाभूतः। ‘अनन्या राघवेणाहं भास्करेण प्रभा यथा ।’ रामा०। ४.नास्ति अन्यः यस्य अद्वितीयः, एकाकी ५.नास्ति अन्यः उपास्यः विषयः वा यस्य अन्याननुपासकः। ‘अनन्याश्चिन्तयन्तो माम्’ गीता ९.२२। ६.अनन्यविषयः, अन्यविषयरहितः। ‘पुरुषः परः पार्थ भक्त्या लभ्यस्त्वनन्यया’ गीता ८.२२।