अनन्तव्रत (anantavrata)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishGoldstucker
EnglishAufrecht Catalogus Catalogorum
Englishशब्दकल्पद्रुमः
Sanskritअनन्तव्रतं, त्रि, (अनन्तस्य तन्नामकदेवस्य व्रतं षष्ठी-तत्पुरुषः ।) भाद्रशुक्लचतुर्दशीकर्त्तव्यमनन्तदेवस्यव्रतं । तद्विधिर्यथा । भविष्ये, --“अनन्तव्रतमेतद्धि सर्व्वपापहरं शुभं ।सर्व्वकामप्रदं नॄणां स्त्रीणाञ्चैव युधिष्ठिर ॥
तथा शुक्लचतुर्द्दश्यां मासि माद्रपदे भवेत् ।तस्यानुष्ठानमात्रेण सर्व्वपापं प्रणश्यति” ॥
* ॥
व्रतारम्भप्रतिष्ठयोर्वर्ज्ज्यकालमाह ज्योतिषे, --“गुरोर्भृगोरस्तबाल्ये वार्द्धके सिंहगे गुरौ ।वक्रिजीवाष्टविंशेऽह्नि गुर्व्वादित्ये दशाहिके ॥
पूर्व्वराशावनायातातिचारिगुरुवत्सरे ।प्राग्राशिगन्तृजीवस्य चातिचारे त्रिपक्षके ॥
कम्पाद्यद्भुतसप्ताहे नीचस्थेज्ये मलिम्लुचे ।भानुलङ्घितके मासि क्षये राहुयुते गुरौ ॥
पौषादिकचतुर्म्मासे चरणाङ्कितवर्षणे ।एकेनाह्ना चैकदिने द्वितीयेन दिनत्रये ॥
तृतीयेन तु सप्ताहे माङ्गल्यानि शुभान्विताः ।विद्यारम्भकर्णवेधौ चूडोपनयनोद्वहान् ॥
तीर्थस्नानमनावृत्तं तथानादिसुरेक्षणं ।परीक्षारामयज्ञांश्च पुरश्चरणदीक्षणे ॥
व्रतारम्भप्रतिष्ठे च गृहारम्भप्रवेशने ।प्रतिष्ठारम्भणे देवकूपादेर्वर्ज्जयन्ति हि ॥
द्वात्रिंशद्दिवसाश्चास्ते जीवस्य भार्गवस्य च ।द्वासप्ततिर्म्महत्यस्ते पादास्ते द्वादशक्रमात् ॥
अस्तात् प्राक् परयोः पक्षं गुरोर्वार्द्धकबालते ।पक्षंवृद्धो महास्ते तु भृगुर्बालो दशाहिकः ॥
पादास्ते तु दशाहानि वृद्धोबालो दिनत्रयं” ॥
* ॥
“मध्याह्ने भोज्यवेलायां समुत्तीर्य्य सरित्तटे” ।ददर्श शीला सा स्त्रीणां समूहं रक्तवाससां ॥
चतुर्द्दश्यामर्च्चयन्तं भक्त्या देवं पृथक् पृथक्” ।इति भविष्योत्तरीयान्मध्याह्नव्यापिनी तिथि-र्ग्राह्येति वाच्यं । पूर्व्वाह्नो वै देवानामिति श्रुत्या-दिभिः पूर्व्वाह्ने दैवकृत्यविधानात् । विध्यसम-भिव्याहृतार्थवादेन तद्बाधायोगात् किन्तु तस्यैवगौणकालबोधकं तत् । कालमाधवीयोऽप्येवं ।भविष्येऽपि पूजाविधायको मध्याह्नो नोक्तः ।यथा, --“कृत्वा दर्भमयानन्तं वारिधान्यां निवेश्य च ।पूजयेद्गन्धपुष्पाद्यैर्नैवेद्यैर्विविधैरपि ॥
चतुर्द्दशफलैर्मूलैर्जलजैः कुसुमैरपि ।यवगोधूमशालीनां चूर्णेनैकतरस्य च ॥
कृत्वा पूपद्वयं तस्मै दद्यादेकं घृतान्वितं ।स्वयमेकन्तु भुञ्जीत करे बद्ध्वा सुडोरकं ॥
चतुर्दशग्रन्थियुक्तं कुङ्कुमेन विलेपितं ।सुविन्यस्तं विष्णु नामप्रतिग्रन्थिसमन्वितं ।चतुर्दशसूत्रमयं सूत्रं कार्पासमेव च” ॥
* ॥
पूजाडोरकबन्धनमन्त्रस्तु रत्नाकरे, --“अनन्तसंसारमहासमुद्रेमग्नान् समभ्युद्धर वासुदेव ।अनन्तरूपिन् विनियोजयस्वअनन्तरूपाय नमो नमस्ते” ॥
इति मन्त्रमुक्त्वा ।“अनेन डोरकं बद्ध्वा भोक्तव्यं सुस्थमानसैः” ।इत्यर्द्धं भविष्योत्तरीयं कालकौमुद्यां लिखित-मिति ॥
* ॥
तथा, --“पापोऽहं पापकर्म्माहं पापात्मा पापसम्भवः ।त्राहि मां पुण्डरीकाक्ष सर्व्वपापहरो भव ॥
अद्य मे सफलं जन्म जीवितञ्च सुजीवितं ।यत्तवाङ्घ्रियुगाब्जाग्रे मूर्द्धा मे भ्रमरायते” ॥
इत्याभ्यां नमस्कुर्य्यात् । अनन्तकथामप्यत्र शृ-ण्वन्ति । इति तिथ्यादितत्त्वं ॥
* ॥
* ॥
अथप्रयोगः । आचम्य स्वस्तिवाच्य सङ्कल्पं कुर्य्यात्, --“अद्य भाद्रे मासि शुक्ले पक्षे चतुर्दश्यां तिथा-वारभ्य अमुकगोत्रः श्रीअमुकः धनधान्यपुत्त्र-पौत्त्राद्यनवच्छिन्नसन्ततिप्राप्तिकामः श्रीविष्णु-प्रीतिकामो वा चतुर्दशवर्षपर्य्यन्तं भगवदनन्त-भट्टारकपूजाचतुर्दशग्रन्थियुक्तडोरकरमूलबन्धन-कथाश्रवणब्राह्मणसं प्रदानकातपसिततण्डुलप्रस्थ-द्वयघटितपूपार्द्ध्वोपकल्पनतदर्द्धात्मकर्तृकभोजन-रूपमनन्तव्रतमहं करिष्ये” इति सङ्कल्प्य सूक्तंपठेत् ॥
* ॥
ततो गुण्डिकया अष्टदलपद्मं निर्म्मायतन्मध्ये घटमारोप्य शालग्रामं वा चतुर्दिक्षुध्वजां निवेश्य यथोक्तविधिना गणेशनवग्रहदिक्-पालशिवदुर्गालक्ष्मीनारायणपूजां कृत्वा शक्रं ध्या-येत्, -- “ओँ महेन्द्रं मत्तैरावतस्कन्धस्थं सहस्रनय-नोज्ज्वलं । मणिकाञ्चनघटितनानालङ्कारभूषितंवज्रहत्तं शच्यन्वितं देवगन्धर्व्वगणैर्वृतं मुनिगणैःस्तूयमानं” ॥
एवं ध्यात्वा महेन्द्राय नमः एवंकमेण संपूज्य प्रणमेत्, --“ओँ शक्रः सुरपतिश्चैव वज्रहस्तो महाबलः ।ऐरावतगजारूढः सहस्राक्षो नमोऽस्तु ते” ॥
ततो वृहत्पात्रे जलं संस्थाप्य हस्तं दत्त्वा समुद्र-मावाहयेत्, --ओँ गङ्गेचेत्यादिनावाह्य समुद्रं पूजयेत् ॥
* ॥
ततो भूतशुद्ध्यादिप्राणायामान्तं कृत्वा अनन्तंध्यायेत्, --“ओँ दिव्यसिंहासनासीनं देवेशं गरुडध्वजं ।शुक्लवर्ण्णं चतुर्बाहुं नागयज्ञोपवीतिनं ॥
शङ्खचक्रगदापठ्मधरं पीताम्बरं विभुं ।श्रिया वाण्या च संश्लिष्टं किरीटादिसमुज्ज्वलं ॥
फणाशतसमायुक्तं जगन्नाथं जगद्गुरुं ।अनन्तं चिन्तयेद्देवं नारदाद्यैरुपस्तुतं” ॥
एवं ध्यात्वा स्वशिरसि पुष्पं दत्वा मानसोपचारैःसंपूज्य अर्घ्यं संस्थाप्य ।आं हृदयाय नमः एवं षडङ्गानि विन्यस्य पुन-र्ध्यात्वावाहयेत् ।“ओँ आगच्छानन्त देवेश पत्नीभ्यां बाहनान्वित ।गन्धर्व्वादिगणोपेत सान्निध्यमिह कल्पय” ॥
ततः पूजयेत् ।पाद्यं गृहीत्वा, --“ओँ पाद्यं गृहाण देवेश सुरासुरमनोहरं ।तुष्टो मे भव देवेश नरसिंह नमोऽस्तु ते” ॥
अर्घ्यं गृहीत्वा, --“अर्घ्यं गृहाण देवेश सुगन्धिकुङ्कुमान्वितं ।दूर्व्वाक्षतसमायुक्तं नमस्ते विश्वमूर्त्तये” ॥
आचमनीयं गृहीत्वा, --“ओँ इदमाचमनीयन्ते दिव्यतोयोद्भवं प्रभो ।भक्त्या दत्तं मयानन्त नमस्ते पन्नगाधिप” ॥
एवं मधुपकं पुनराचमनीयं स्नानीयं वस्त्रयुग्मञ्चदद्यात् ॥
* ॥
गन्धः, --“ओँ गन्धोऽयं देवदेवेश कुड्कुमागुरुसम्भवः ।यथाशक्त्या मया दत्तो देवेश प्रतिगृह्यतां” ॥
पुष्पं, --“ओँ पुष्पं गृहाण भोऽनन्त सुगन्धिद्रव्यमुत्तमं ।पद्मनाभ नमस्तेऽस्तु कुशलं कुरु सर्व्वदा” ॥
धूपः, --“ओँ धूपोऽयं ते महाभाग दशाङ्गोऽगुरुणा सह ।मया दत्तः प्रभो विष्णो गृह्यतां सुरनायक” ॥
दीपः, --“ओँ दीपं गृहाण भोऽनन्त जाज्ञ्वल्यमानमद्भतं ।त्वं गृहाण सदा देव रक्ष मां घोरसागरात्” ॥
यज्ञोपवीतं, --“ओँ ऋग्यजुःसाममन्त्रेण त्रिवृत्तं पठ्मयोनिना ।सावित्रीग्रन्थिसंयुक्तमुपवीतं तवानघ” ॥
नैवेद्यं, --“ओँ नानाभक्ष्यसमायुक्तं चतुर्द्दशफलैर्युतं ।भक्त्या सम्पादितं देव सपूपं गृह्यतां विभो” ॥
* ॥
ततो बलभद्रं संपूज्य स्तुतिं कुर्य्यात्, --“ओँ बलभद्रं महात्मानं हलिनं लाङ्गलायुधं ।कादम्बरीमदोन्मत्तं नमामि बलदेवकं” ॥
तत आवरणदेवताः पूजयेत् ।ओँ गणेशाय नमः । एवं लोकपालेभ्यः । नव-ग्रहेभ्यः । अष्टवसुभ्यः । एकादशरुद्रेभ्यः । द्वादशा-दित्येभ्यः । अनन्तादिनागेभ्यः । मत्स्यादिदशाव-तारेभ्यः । मासेभ्यः । ऋतुभ्यः । वत्सरेभ्यः ।धर्म्माय । अधर्म्माय । ज्ञानाय । अज्ञानाय ।वैराग्याय । अवैराग्याय । ऐश्वर्य्याय । अनैश्वर्य्याय ।शिवाय । दुर्गायै । पृथिव्यै । गङ्गायै । यभुनायै ।महालक्ष्म्यै । सरस्वत्यै । गरुडाय । शङ्खाय । चक्राय ।गदायै । पद्माय । कौस्तुभाय । सूर्य्यमण्डलाय ।सोममण्डलाय । वह्निमण्डलाय । वायुमण्डलाय ।सर्व्वेभ्यो देवेभ्यः । सर्व्वाभ्यो देवीभ्यः ॥
* ॥
ततः स्तुतिं पठेत्, --“ओँ अनन्तसंसारमहासमुद्रेमग्नं समभ्युद्धर वासुदेव ।अनन्तरूपिन् विनियोजयस्वअनन्तरूपाय नमो नमस्ते ॥
नमोऽस्त्वनन्ताय सहस्रमूर्त्तयेसहस्नपादाक्षिशिरोरुबाहवे ।सहस्रनाम्ने पुरुषाय शाश्वतेसहस्रकोटीयुगधारिणे नमः ॥
हृदिस्थं सर्व्वदेवानां इन्द्रियाणां गुणातिगं ।सर्व्वपापहरं देवं प्रणमामि जनार्द्दनं ॥
अनन्तरूपेण बिभर्षि पृथ्वींअनन्तलक्ष्मीं विदधासि तुष्टः ।अनन्तभोगान् प्रददासि तुष्टःअनन्तमोक्षं पुरुषे प्रहृष्टः ॥
प्रणमामि हृषीकेशं वासुदेवं जगद्गुरुं ।सृष्टिस्थितिविनाशानां कर्त्तारं प्रणमाम्यहं ॥
राक्षसानामरिं नौमि नौमि दैत्यविमर्द्दकं ।जगतां हितकर्त्तारं नौमि पङ्केरुहेक्षणं ॥
जन्मजन्मकृतं यच्च बाल्ययौवनवार्द्धके ।वृद्धिमाप्नोतु तत् पुण्यं पापं हर हलायुध ॥
भक्तिहीनं क्रियाहीनं मन्त्रहीनं यदर्च्चितं ।यथोद्दिष्टासिमां पूजां परिपूर्णां कुरुष्व मे ॥
पापोऽहं पापकर्म्माहं पापात्मा पापसम्भवः ।त्राहि मां पुण्डरीकाक्ष हरे संसारसागरात्” ॥
ततो घटस्थजलेन संप्रोक्ष्य करमूले डोरकंसमर्पयेत् ।“ओँ इदं डोरमनन्ताख्यं चतुर्द्दशगुणात्मकं ।सर्व्वदेवमयं बिष्णो स्वकरे धारयाम्यहं” ॥
ततो भोज्यमुत्सृजेत् ॥
* ॥
ततः कथां शृणुयात् ।यथा, --अरण्यवासमुषितो युधिष्ठिरनृपो वशी ।प्राप्तस्त्रैलोक्यनाथेन कृष्णेन परमात्मना ॥
कथोकथनं जातं तयोस्तत्र प्रियाप्रियं ।विशेषेण च गोविन्दं पप्रच्छ च युधिष्ठिरः ॥
* ॥
युधिष्ठिर उवाच ।केन व्रतेन देवेश वाञ्छितं प्राप्यते फलं ।निष्पापाः सकला लोकाः भवन्ति जन्मजन्मनि ॥
* ॥
श्रीकृष्ण उवाच ।अस्ति व्रतमनन्ताख्यं यत्कृतं सुरसद्मनि ।इन्द्राद्यैर्लोकपालैश्च तन्मे कथयतः श्टणु ॥
शुक्लपक्षे चतुर्द्दश्यां मासि भाद्रपदे तथा ।तस्यानुष्ठानमात्रेण सर्व्वपापं प्रणश्यति ॥
* ॥
युधिष्ठिर उवाच ।कृष्ण कोऽयं त्वयाख्यातो योऽनन्त इति संज्ञितः ।कोऽयं शेषश्च नागश्च अनन्तस्तक्षकः स्मृतः ॥
परमञ्चोत्तमं वापि उताहो ब्रह्म उच्यते ।क एषोऽनन्तसंज्ञो वै तन्मे ब्रूहि जनार्द्दन ॥
* ॥
श्रीकृष्ण उवाच ।अनन्त इत्यहं पार्थ मम रूपं निबोध तत् ।आदित्यगतिरूपेण यः काल उपपद्यते ॥
कलाकाष्ठामुहूर्त्तादिदिनरात्रिव्यवस्थया ।पक्षो मास ऋतुर्व्वर्षं युगकल्पव्यवस्थया ॥
सोऽहं कालोऽवतीर्णोऽस्मि भुवो भारावतारणात् ।दानवानां विनाशाय वसुदेवतनूद्भवं ॥
अनन्तं विद्धि मां पार्थ कृष्णं विष्णुं हरिं शिवं ।ब्रह्माणं भास्करं शेषं सर्व्वव्यापिनमीश्वरं ॥
प्रत्ययार्थं मया पार्थ विश्वरूपं निबोध तत् ।पूर्व्वमेव महाबाहो योगिध्येयमनुत्तमं ॥
* ॥
यधिष्ठिर उवाच ।अनन्तव्रतमाहात्म्यं विधिं विधिविदां वर ।किं पुण्यं किं फलं तस्य अनुष्ठानञ्च तस्य किं ॥
केन वा तत्कृतं पूर्व्वं लोके केन प्रकाशितं ।तत्सर्व्वं बहु विस्तार्य्य ब्रूहि नारायण प्रभो ॥
* ॥
श्रीकृष्ण उवाच ।आसीत्पुरा कृतयुगे सुमन्तुर्नाम वै द्विजः ।वशिष्ठगोत्रजो विद्वान् शीलवान् विजितेन्द्रियः ॥
पत्नी तस्याभवद्दीक्षा सती सत्यव्रते स्थिता ।चारित्रशीलसम्पन्ना सुरूपा भृगुवंशजा ॥
तस्याः कालेन संजाता दुहिता सर्व्वलक्षणा ।शीला नाम्ना सुशीला सा वर्द्धते पितृवेश्मनि ॥
माता तस्यास्तु कालेन ज्वरदाहप्रपीडिता ।समागत्य नदीतोये मृता स्वर्गपुरं ययौ ॥
कृतं सुमन्तुना तस्याः कर्म्म यत् पारलौकिकं ।ततः सुमन्तुः संत्यज्य दुःखं शोकं क्रमात् पुनः ।नापत्नीको गृही धर्म्मं कर्त्तुमर्हति वै क्वचित् ।इति सञ्चिन्त्य मनसा विवाहोत्सुकमानसः ॥
देवलस्य मुनेः कन्यां कर्कशां परिणीतवान् ।सा कर्कशातिदुःशीला सदा निष्ठुरभाषिणी ॥
कोपना प्रतिकूला च निर्ल्लज्जा कलहप्रिया ।अदक्षा गृहकृत्येषु दक्षा भोजनकर्म्मणि ॥
कलहेन तु सन्तुष्टा रुष्टा बन्धुजनान् प्रति ।सा तु शीला पितुर्गेहे वर्द्धिता च दिने दिनेकरोति सखिभिः सार्द्धं शिशुक्रीडामनुत्तमां ।गृहान्तरस्थलद्वारदेहलीतोरणादिषु ॥
चतुरङ्गकवर्णैश्च रक्तपीतसितासितैः ।स्वस्तिकं पठ्मशङ्खौ च मण्डयन्ती पुनः पुनः ॥
कुर्व्वन्ती प्रत्यहं बाला देवतातिथिपूजनं ।गृहकृत्ये सदा दक्षा पितुरत्यन्तवल्लभा ॥
कालेन कियता विप्रस्तां दृष्ट्वा यौवनोद्गतां ।कस्मै देया मया कन्या इति चिन्तान्वितोऽभवत् ॥
ततो दैववशात्तत्र कौण्डिन्यः समुपागतः ।मुनिश्रेष्ठो महाभागः कुलीनो धर्म्मतत्परः ॥
मनसा चिन्तयामास सुमन्तुः सुतपाः सुधीः ।अस्मै भाग्यवशाच्छीला प्रतिपाद्या प्रयत्नतः ॥
इति कृत्वा मतिं विप्रो ददौ कन्यां शुभे दिने ।कन्यामलङ्कृतां साध्वीं शीलां चन्द्रनिभाननां ॥
गृह्योक्तवेदविधिना विवाहमकरोत्तदा ।ततो होमादिकं कर्म्म समाप्य समये मुनिः ॥
सुमन्तुः कर्कशां प्राह जामात्रे देहि दक्षिणां ।सफलं कुरु मे दानं प्रिये मुनिकुलोद्भवे ॥
दक्षिणारहितं कर्म्म निष्फलं जायते यतः ।सा तु तद्वचनं श्रुत्वा कर्कशा कुपिताभवत् ॥
सुमन्तुं भर्त्सयामास कर्कशैर्व्वचनैः पतिं ।अलङ्कारं समानीय स्वकीयञ्चापि बन्धनं ॥
निक्षिप्य निभृते स्थाने कर्कशान्यगृहं ययौ ।सुमन्तुश्चातिदीनात्मा लज्जितश्चाभवत्तदा ॥
यत्किञ्चिदर्थयोग्यञ्च द्रव्यमानीय यौतुकं ।जामात्रे प्रददौ विप्रः परिचार्य्य पुनः पुनः ॥
ततो विवाहं निर्व्वर्त्त्य कौण्डिन्योऽपि निजाश्रमं ।गोयाने तां समारोप्य शीलामादाय वै ययौ ॥
ततः सा पथि गच्छन्ती शीला चन्द्रनिभानना ।मध्याह्ने भोज्यवेलायां समुत्तीर्य्य सरित्तटे ॥
ददर्श शीला नारीणां समूहं व्रतचारिणां ।पुंसां वृन्दञ्च तत्रैव रक्तपीतास्बरासनं ॥
चतुर्द्दश्यामर्चयन्तं भक्त्यानन्तं पृथक् पृथक् ।दृष्ट्वा समूहं नारीणां सती पप्रच्छ सादरं ॥
विनयावनता साध्वी प्रणिपत्य सुरेश्वरं ।किमिदं क्रियते कार्य्यं भवतीभिस्तदुच्यतां ॥
* ॥
स्त्रिय ऊचुः ।भाद्रे मासि सिते पक्षे उत्थिते वासवध्वजे ।आराधिते महेन्द्रे च ध्वजाकारासु यष्टिषु ॥
नत्वा सरसि यः स्नात्वा अनन्तार्च्चनमारभेत् ।कृत्वा दर्भमयं देवं वारिवाजसमन्वितं ॥
अनन्तं देवदेवेशं चतुर्ब्बाहुं किरीटिनं ।अतसीपुष्पसंकाशं काञ्चनाङ्गदभूषणं ॥
शङ्खचक्रगदाशार्ङ्गं विविधायुधधारिणं ।एह्येहि भगवन् कृष्ण तव यज्ञः प्रवर्त्तते ॥
वारिधान्यां तथानन्तं भगवन्तं नियोजयेत् ।मण्डले पुष्पनैवेद्यं धूपवस्त्रानुलेपनं ॥
दत्त्वा च पूजयेद्भक्त्या अनन्तं विश्वरूपिणं ।पिष्टकार्थं व्रीहिचूर्णं यवगोधूमयोश्च वा ॥
एतेषां प्राप्यते यत्तु तद्ग्राह्यं प्रस्थसंज्ञितं ।अर्द्धं विप्राय दातव्यमर्द्धमात्मनि योजयेत् ॥
पूजयित्वा तथा देवं गन्धपुष्पैर्यथाक्रमं ।श्रुत्वा कथां ततस्तस्य कुङ्कमाक्तं सुडोरकं ॥
चतुर्द्दशग्रन्थियुक्तं नारी वामकरे न्यसेत् ।पुमांस्तु दक्षिणे बाहौ तदानन्तं प्रपूजयेत् ॥
निर्व्वर्त्त्य पूजां देवस्य पूपं भुक्त्वा यथासुखं ।विसृज्य दक्षिणां दत्त्वा प्रणम्य च यथासुखं ॥
शीला श्रुत्वा वचस्तासां यथा ताभिरुदाहृतं ।व्रतं चकार सा बाहौ बद्ध्वा डोरकमुत्तमं ॥
पूपप्रस्थञ्च सा कृत्वा भुक्त्वा चैव तथैव च ।पुनर्जगाम तेनैव गोरथेन समन्विता ॥
तेनानन्तप्रसादेन गृहं गोधनसङ्कुलं ।तदाश्रमं श्रिया युक्तं धनधान्यसमन्वितं ॥
विविधातिथिसम्पूर्णं नानारत्नैर्विभूषितं ।वराश्वमत्तमातङ्गमहिषैर्गोधनान्वितं ॥
शीला च मणिकाञ्चीभिर्मुक्ताभरणभूषिता ।दिब्याङ्गी शीलसम्पन्ना सावित्रीप्रतिमा यथा ॥
कदाचिदुपविष्टा सा वह्निकुण्डं समागता ।कौण्डिन्योऽपि विशेद्रोषात् दृष्ट्वा डोरमनन्तकं ।शीलायाः करमूले च बद्धमेव प्रयत्नतः ।पप्रच्छ क्रोधवचसा भृकुटीकुटिलं मुखं ॥
किमिदं डोरकं हस्ते बद्ध्वा भार्य्येऽत्र तिष्ठसि ।प्रमेयः कस्य देवस्य दुर्ब्बुद्धे ब्रूहि सत्वरं ॥
* ॥
शीलोबाच ।अनन्तं देवदेवस्य प्रमेयं डोरकं शुभं ।करे बद्धं विधानेन श्टणु मे वचनं प्रभो ॥
प्रसादाद् यस्य देवस्य भुङ्क्ते सुविपुलं धनं ।न जानासि कथं नाथ तदेवं जगदीश्वरं ॥
शीलावाक्यं ततः श्रुत्वा कौण्डिन्यः कुपितोऽभवत् ।कोऽसावनन्तसंज्ञो वै न श्रुतोऽपि वरानने ॥
इत्युक्त्वाकृष्य कुपितो भुजाड्डोरमनन्तकं ।क्षिप्तं ज्वालाकुले वह्नौ निर्भर्त्स्य बहुधा प्रियां ॥
ततः सा संभ्रमात् शीला हाहा कृत्वा प्रधाविता ।वह्नेः सूत्रं समादाय क्षीरभध्ये ततोऽक्षिपत् ॥
ततस्तया करे वामे पुनर्बद्धं सुडोरकं ।अनन्ताक्षेपदोषेण दारिद्र्यं पतितं गृहे ॥
न कैश्चित् वर्ण्यते लोकैः सोऽपि विप्रो युधिष्ठिर ।गात्रे मलिनता प्राप्ता चक्षुर्निद्रां तथैव च ॥
शून्यानि गृहरूपाणि दग्धानि वह्निना क्वचित् ।निरीक्ष्य स्वपुरं विप्रश्चिन्तयामास चेतसा ॥
अथ शीला विवर्णा सा दुःखिता पतिदोषतः ।विचचार पुरीं सर्व्वां शून्यागारसमन्वितां ॥
अथ कौण्डिन्यविप्रस्य संजाता बुद्धिरुत्तमा ।ममापि दुष्कृतं कर्म्म कृतं वा मे विगर्हितं ॥
अनन्ताक्षेपदोषेण ममापि गतिरीदृशी ।अनन्तं यत्र पश्यामि तत्र यास्यामि दुर्म्मतिः ॥
ततो जगाम कौण्डिन्यो वनं व्याघ्रादिसङ्कुलं ।व्रतस्यान्वेषणं कर्त्तुं पादौ द्रष्टुं तथा हरेः ॥
विह्वलः स ययौ मार्गे जनजन्तुविवर्ज्जिते ।तत्रापश्यच्च तं वृक्षं फलपुष्पसमन्वितं ॥
वर्ज्जितं पक्षिसङ्घातैः कीटैश्चैव विशेषतः ।तमपृच्छत् त्वयानन्तः क्वचिद्दृष्टो महाद्रुम ॥
स चोवाच महाबृक्षो नानन्तं वेद्मि भो द्विज ।ततो गच्छन् ददर्शाग्रे तृणमध्ये सवत्सिकां ॥
तृणमध्ये प्रधावन्ती न खादति न जिघ्रति ।हे महाधेनुके ब्रूहि किमनन्तस्त्वयेक्षितः ॥
सवत्सा तमुवाचाथ नानन्तं वेद्मि हे द्विज ।ततो गच्छन् ददर्शाग्रे वृषश्रेष्ठं वने स्थितं ॥
तमपृच्छदयं विप्रः अनन्तो वीक्षितस्त्वया ।वृषभस्तमुवाचेदं विषण्णं ब्राह्मणं प्रति ॥
यद्यनन्तमहं जाने तदा मे गतिरीदृशी ।ततो व्रजन् ददर्शाग्रे गर्द्दभं कुञ्जरं तथा ॥
नानामायाप्रचरन्तं मदगर्ज्जनदर्पितं ।स तं दृष्ट्वा द्विजोऽपृच्छदनन्तं दृष्टवान् किमु ॥
प्रत्युत्तरमुवाचेदं नानन्तं वेद्मि हे द्विज ।ततो व्रजन् ददर्शाग्रे रम्यं पुष्करिणीद्वयं ॥
अन्योन्यजलसंघातैर्व्वोचिभिरुपशोभितं ।शुभैः कुमुदकह्लारैः कमलोत्पलशोभितं ॥
भ्रमरैश्चक्रवाकैश्च हंसकारण्डवैर्युतं ।तमपृच्छत् द्विजोऽनन्तो भवतीभ्याञ्च लक्षितः ॥
पुष्करिण्यावूचतुस्तं न जानीवो हरिं क्वत्तित् ।निपपात ततो विप्रो हाहा कृत्वा रुदन् भुवि ॥
किं करोमि क्व गच्छामि कथं पश्यामि तं विभुं ॥
* ॥
ततः कृपालुहृदयो देबेशो देवपूजितः ॥
तत्क्षणाद्भगवान् विष्णुर्द्विजप्रत्यक्षमागतः ।वृद्धब्राह्मणरूपेण प्रोवाच वचनं द्विजं ॥
उत्तिष्ठोत्तिष्ठ विप्रेन्द्र त्यज दुःखं सुखी भव ।अनन्तं दर्शयिष्यामि कृष्णं विष्णुं हरिं शिवं ॥
ब्राह्मणं तं समादाय पातालवर्त्मना पुरीं ।तां पुरीं दर्शयामास ततश्चान्तर्द्दधे द्विजः ॥
स तां ददर्श कौण्डिन्यः पुरीं त्रैलोक्यदुर्ल्लभां ॥
दिव्यनारीनरैर्युक्तां मणिरत्नविभूषितां ॥
सुवर्णरचितां सर्व्वां वेष्टितां तक्षकादिभिः ।तत्रापश्यत् स कौण्डिन्यो देवदेवमनन्तकं ॥
बिश्वरूपं जगन्नाथं चतुर्ब्बाहुं किरीटिनं ।शङ्खचक्रगदापठ्मधारिणं गरुडध्वजं ॥
दक्षिणे विलसल्लक्ष्मीं वामे क्रीडत्सरस्वतीं ।सप्तफणासमायुक्तं दिव्यसिंहासनेस्थितं ॥
एवं रूपं जगन्नाथं दृष्ट्वा भक्त्या स्तुतिः कृता ।जगाम भूमौ शिरसा अनन्तस्य समीपतः ॥
नमोऽस्त्वनन्ताय सहस्रमूर्त्तयेसहस्रपादाक्षिशिरोरुबाहवे ।सहस्रनाम्ने पुरुषाय शाश्वतेसहस्रकोटीयुगधारिणे नमः ॥
अज्ञानेन मया देव यत् कृतं पापकर्म्मणा ।तत्सर्व्वं कृपया शंस क्षमस्व मधुसूदन ॥
* ॥
अथ कौण्डिन्यविप्रस्य स्ततिं श्रुत्वा जनार्द्दनः ।प्रसन्नो भगवान्देवश्चानन्तोऽनन्तरूपधृक् ॥
कथं मे प्रियमाख्यातमिहागच्छेति भूसुर ॥
* ॥
अनन्त उवाच ।तुष्टोऽहं ब्राह्मणश्रेष्ठ भक्त्या तव विशेषतः ।वरं गृहाण विप्रेन्द्र तुष्टोऽस्मि त्यज विस्मयं ॥
* ॥
कौण्डिन्य उवाच ।स्वकर्म्मफलभोगेन यां यां योनिं व्रजाम्यहं ।तस्यां तस्यां हृषीकेश हरिभक्तिर्दृढास्तु मे ॥
अतिप्रमादान्मोहाद्वा यन्मया दुष्कृतं कृतं ।तदागः क्षम्यतां नाथ प्रणमामि पुनः पुनः ॥
श्रुत्वानन्तस्तु तद्वाक्यं ददौ तस्मै वरत्रयं ।दारिद्रनाशनं धर्म्मं विष्णुलीकं तथाक्षयं ॥
* ॥
कौण्डिन्य उवाच ।पूर्णो मनोरथो देव मम चाद्य विशेषतः ।किञ्चित् पृच्छामि देवेश तन्मे ब्रूहि जगत्पते ॥
कश्चूतः को वृषः का गौः किन्तत् पुष्करिणीद्वयं ।कः खरः कुञ्चरः को वा को वा वृद्धद्विजोत्तमः ॥
कृपया कथयस्वाद्य पथि दृष्टो मया विभो ।श्रीअनन्त उवाच ।यश्चाम्रवृक्षो दृष्टो हि विप्रो विद्यासु गर्व्वितः ।उपस्थिताय शिष्याय विद्यां यस्मान्न दत्तवान् ॥
तेन कर्म्मविपाकेन वृक्षत्वं प्राप्य तिष्ठति ।वृषभो यस्त्वया दृष्टो लोभकर्म्मकृतः पुरा ॥
दत्तं पर्य्युषितं द्रव्यं स्वादु भुक्तं स्वयं यतः ।वृषभत्वं समासाद्य ततस्तिष्ठति निर्ज्जने ॥
विप्राय वसुधां दत्त्वा निष्फलां शस्यवर्ज्जितां ।तेनासौ गोत्वमासाद्य तृणमध्ये प्रधावति ॥
धर्म्माधर्म्मौ विजानीयाद्यत्तत् पुष्करिणीद्वयं ।गर्द्दभोऽज्ञानसम्पन्नः कुञ्जरो मदगर्व्वितः ॥
ब्राह्मणोऽसावनन्तोऽहं यस्त्वया दर्शितो मुने ।एतत्ते कथितं सर्व्वं गच्छ विप्र निजाश्रमं ॥
पुनः समृद्धिस्ते विप्र भविष्यति न संशयः ।भुक्त्वा भोगांश्च विपुलान् संप्राश्यसि महत् पदं ॥
इति दत्त्वा वरं तस्मै तत्रैवान्तरधीयत ।कौण्डिन्योऽपि गृहं तत्वा करोति व्रतमुत्तमं ॥
अनन्ताख्यं महापुण्यं वर्षाणाञ्च चतुर्द्दशं ।शीलया सह धर्म्मात्मा सुखं भुक्त्वा मनोरथान् ॥
विष्णुलोकं समासाद्य रराज शीलया सह ।अनन्ताख्यव्रतेनेह समाप्तेनैव पार्थिव ॥
सर्व्वपापविनिर्म्मुक्ता यास्यन्ति परमां गतिं ।एवमेवं हि नियमात् स्त्रियोऽनन्तव्रतान्नृप ॥
पुत्त्रपौत्त्रधनैर्युक्ता भुक्त्वा भोगान् मनोरथान् ।विष्णुलोकमाप्नुवन्ति यावच्चन्द्रदिवाकरौ” ॥
इति भविष्यपुराणे अनन्तव्रतं समाप्तं ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
