अनध्याय (anadhyAya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishअनध्यायः [anadhyāyḥ], अनध्ययनम् [न. त.] Not studying, intermission of study
the time when there is or ought to be such intermission, a holiday (˚दिवसः)
अद्य शिष्टानध्यायः 4 a holiday (given) in honour of distinguished guests. See 2.15-6
4.13-4
15-8
117-8, 126
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishGoldstucker
EnglishApte Hindi
Hindiअनध्यायः
- न अध्यायः
"न पढ़ना, पढ़ाई में विराम, वह समय जबकि इस प्रकार का विराम होता है या होना चाहिए, एक अवकाश का दिन, किसी पूज्य अतिथि के सम्मान में दिया गया अवकाश"
Shabdartha Kaustubha
Kannadaअनध्याय
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವಿದ್ಯಾಭ್ಯಾಸದ ವಿರಾಮ / ವ್ಯಾಸಂಗದ ವಿಶ್ರಾಂತಿ
व्युत्पत्तिः - > न अध्यायोऽध्ययनम् ।
अनध्याय
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಧ್ಯಯನದ ವಿರಾಮಕಾಲ / ವ್ಯಾಸಂಗದ ಬಿಡುಗಾಲ
निष्पत्तिः - > अधि+इङ् (अध्ययने) अधि० “घञ्” (३-३-१२२) ।
व्युत्पत्तिः - > न अधीयते अस्मिन् काले |
L R Vaidya
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
Germanवाचस्पत्यम्
Sanskritअनध्याय अध्यायोऽध्ययनमभावार्थे त० । अध्यय-नाभावे । न अधीयतेऽस्मिन् काले इति अधिकरणे घञ् ।अध्ययनाय निषिद्धे “चातुर्मास्यद्वितीयादौ स्मृतिषूक्तान-ध्यायकाले “अष्टकासु च संक्रान्तौ शयने बोधने हरेः ।अनध्यायं प्रकुर्व्वी” तेत्याद्युक्ते काले, “निर्घाते भूमिचलने”इत्याद्याकालिकानध्यायकाले च । अनध्यायकालाश्च स्मृतौदर्शिताः यथा “प्रेकोचैचा द्वितीयास्ताः प्रेतपक्षे गते तुया । या तु कोजागरे याते चैत्रावल्याः परेऽपि या ।चातुर्मास्ये समाप्ते च द्वितीया या भवेत्तिथिः । परास्वेता-स्वनध्यायः पुराणैः परिकीर्त्तित” इति राजमार्त्तण्डः ।“चैत्रकृष्णद्वितीयायां तिसृष्वेवाष्टकासु च मार्गे च फाल्गुनेचैव आषाढे कार्त्तिके तथा । पक्षयोर्माघमासस्य द्वितीयांपरिवर्ज्जयेदिति” भुजबलः । “मन्वादौ च युगादौ चशिष्यान्नाध्यापयेद्बुधः” । निर्णयामृते “रात्रौ याम-द्वयादर्व्वाक् सप्तमी च त्रयोदशी । प्रदोषः स तु विज्ञेयोवेदाध्ययनगर्हितः ॥
रात्रौ नवसु नाडीषु चतुर्थी यदिदृश्यते । प्रदोषः स तु विज्ञेयोवेदाध्ययनगर्हित” इति ॥
निर्णयसिन्धौ प्रजापतिः । “षष्ठी च द्वादशी चैव अर्द्धरात्रो-ननाडिका । प्रदोषे त्वनधीयीत तृतीया नवनाडिका” ॥
वृद्धगर्गः । “स्मृतिषूक्ताननध्यायान् सप्तमीञ्च त्रयोदशीम् ।पक्षयोर्माघमासस्य द्वितीयां परिवर्जयेत्” इति । अनध्या-यास्तु द्विविधा नित्या नैमित्तिकाश्चेति तत्र नित्याः । “आ-षाढेफाल्गुने ज्येष्ठे या द्वितीया विधुक्षये । चातुर्मास्य-द्वितीयास्ताः प्रवदन्ति महर्षयः” ॥
गर्गोऽपि ॥
“कृष्णपक्षेद्वितीयायां फाल्गुनाषाढकार्त्तिके । शुक्लाश्वयुग्द्वितीयायांनैवाध्ययनमाचरेत्” इति ॥
“एतायुगादयः प्रोक्ताः स्वाध्यायंवर्जयेद्बुध” इति उश० । गौतमः । “चातुर्मास्यद्वितीयासु, मन्वादिषु युगादिषु । अष्टकासु च संक्रान्तौ शयने बोधनेहरेः । अनध्यायं प्रकुर्वीत तथा सोपपदासु चेति” । सोप-पदास्तु । “सिता ज्यैष्ठे द्वितीया च आश्विने दशमी तथा ।चतुर्थी द्वादशी माघे एताः सोपपदाः स्मृता इति” गर्गोक्ताः ।बृहन्मनुः “पक्षद्वये चतुर्दश्योरष्टमीद्वितीये तथा । पक्षा-दावपि पक्षान्ते ब्रह्म नाधीयते नरैः ॥
अष्टमी हन्त्युपा-ध्यायं शिष्यं हन्ति चतुर्द्दशी । अमावस्योभयं हन्ति प्रतिपत्पाठमात्रत” इति । मनुः नैमित्तिकानध्यायानाह स्म ।“सन्ध्यागर्जितनिर्घातभूकम्पोल्कानिपातने । व्रतबन्धं नकुर्व्वीत” इति ॥
तथापस्तम्बः ॥
“उल्कायामग्न्युत्-पाते च सर्वासां विद्यानामाकालिकमिति” ॥
स्मृत्यन्तरे ॥
“विद्युद्गर्जितवृष्टीनां सन्निपातोयदा भवेत् । अनध्यायंप्रकुर्व्वीतेत्यादि” । “व्रतेऽह्नि पूर्वसन्ध्यायां वारिदो यदिगर्ज्जति । तद्दिनं स्यादनध्यायं व्रतं तत्र विवर्जयेत् ॥
“सायंसन्ध्यास्तनिते, प्रातःसन्ध्यास्तनिते अहोरात्रौ, विद्युत्यपर-रात्रावधि विद्युति, नक्तञ्चापररात्रादिति गौत० ।स्मृतिरत्नावल्याम् “कालवृष्टौ च तत्कालमकाले चत्रिरात्रकम् । अतिमात्राथवा वृष्टिर्नाधीयीत दिनत्रयम् ।अनुराधर्क्षमारभ्य्य षोडशर्क्षेषु भास्करः । यावच्चरतिचैतावदकालं मुनयो विदुः ॥
तथा च वराहः । मार्गा-न्मासात् प्रभृति मुनयोव्यासवाल्मीकिगर्गाश्चैत्रं यावत् प्रव-र्षणविधौ नेतिकालं वदन्ति । नाडीजङ्घः सुरगुरुमुनिःप्राह वृष्टेरकालौ मासावेतावशुभफलदौ पौषमाघौ नशेषाः” । तत्राकालवृष्टौ पशुमर्त्यचरणाङ्कितायामेव दोषो-नान्यथा उक्तञ्च मुहूर्त्तचिन्तामणौ “यदि मास्सु चतुर्षुपौषमासादिषु भवेदकालवृष्टिः । पशुमर्त्यचरणाङ्कितायांयावद्वसुधा नहि तावददोष” इति । तत्र दिनसंख्याप्युक्तातत्रैव । एकैनैकमहः प्रोक्तं द्वितीयेन त्रिरात्रकम् । तृतीये-न तु सप्ताहं दशरात्रमतः परमिति, पौषे दिनत्रयं वर्ज्यंमाघे चैव दिनद्वयम् । फाल्गुने दिनमेकन्तु चैत्रेतु घटिका-द्वय” मित्यावश्यककार्य्यविषयम् । “अनध्यायस्य पूर्व्वेद्युस्तस्यचैवापरेऽहनि । व्रतबन्धं विसर्गञ्च विद्यारम्भं न कार-येत्, इति नैमित्तिकानध्यायः । मनुरपि नित्याद्यनध्याय-माह स्म । “इमान्नित्यानध्यायानधीयानो विवर्जयेत् ।अध्यापनञ्च कुर्व्वाणः शिष्याणां विधिपूर्व्वकम् ॥
कर्णश्रवे-ऽनिले रात्रौ दिवा पांशुसमूहने । एतौ वर्षास्वनध्यायावध्य-यज्ञाः प्रचक्षते । विद्युत्स्तनितवर्षेषु महोल्कानाञ्च संप्लवे ।आकालिकमनध्यायमेतेषु मनुरब्रवीत् । एतांस्त्वभ्युदितान्विद्यात् यदा प्रादुष्कृताग्निषु । तदा विद्यादनध्यायमनृतौचाभ्रदर्शने । निर्घाते भूमिचलने ज्योतिषाञ्चोपसर्जने ।एतानाकालिकान् विद्यादनध्यायानृतावपि । प्रादुष्कृते-ष्वग्निषु तु विद्युत्स्तनितनिस्वने । सज्योतिः स्यादनध्यायःशेषे रात्रौ यथा दिवा । नित्यानध्यायएव स्याद्ग्रामेषुनगरेषु च । धर्म्मनैपुण्यकामानां पूतिगन्धे च सर्व्वदा ।अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ । अनध्यायोरुद्यमाने समवाये जनस्य च । उदके मध्यरात्रे चविण्मूत्रस्य विसर्जने । उच्छिष्टः श्राद्धभुक् चैव मनसापिन चिन्तयेत् । प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केत-नम् । त्र्यहं न कीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ।यावदेकानुद्दिष्टस्य गन्धो लेपश्च तिष्ठति । विप्रस्य विदुषोदेहे तावद्ब्रह्म न कीर्त्तयेत् । शयानः प्रौढपादश्च कृत्वाचैवावशक्थिकाम् । नाधीयीतामिषं जग्ध्वा सूतकान्नाद्य-मेव च । नीहारे बाणशब्दे च सन्ध्ययोरेव चोभयोः ।अमावास्याचतुर्द्दश्योः पौर्णमास्यष्टकासु च । अमा-वास्या गुरुं हन्ति शिष्यं हन्ति चतुर्द्दशी । ब्रह्माष्टका-पौर्णमास्यौ तस्मात्ताः परिवर्जयेत् । पांशुवर्षे दिशां दाहेगोमायुविरुते तथा । श्वखरोष्ट्रे च रुवति पङ्क्तौ च नपठेद् द्विजः । नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपिवा । वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ।प्राणि वा यदि वा प्राणि यत्किञ्चिच्छ्राद्धिकं भवेत् । तदा-लभ्याप्यनध्यायः पाण्यास्यो हि द्विजः स्मृतः । चौरै-रुपप्लुते ग्रामे संभ्रमे चाग्निकारिते । आकालिकमनध्यायंविद्यात् सर्वाद्भुतेषु च । उपाकर्मणि चोत्सर्गे त्रिरात्रंक्षपणं स्मृतम् । अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु ।नाधीयीताश्वमारूढो न वृक्षं, न च हस्तिनम् । न नावं, न खरं, नोष्ट्रं, नेरिणस्थो, न यानगः । न विवादे, नकलहे, न सेनायां, न सङ्गरे । न भुक्तमात्रे, नाजीर्णे, नवमित्वा, न सूक्तके । अतिथिञ्चाननुज्ञाप्य, मारुते वातवा भृशम् । रुधिरे च स्रुते गात्राच्छस्त्रेण च परि-क्षते । सामध्वनावृग्यजुषी नाधीयीत कदाचन । वेद-स्याधीत्य वाप्यन्तमारण्यकमधीत्य च” इति । याज्ञवल्क्यस्तु ।“त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु । उपाकर्मणि, चोत्सर्गे, स्वशाखश्रोत्रिये मृते । सन्ध्यागर्जितनिर्घातभूकम्पोल्कानिपातने । समाप्य वेदं द्युनिशमारण्यकम-धीत्य च । पञ्चदश्यां चतुर्द्दश्यामष्टम्यां राहुसूतके ।ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च । पशु-मण्डूकनकुलमार्जारश्वाहिमूषिकैः । कृतेऽन्तरे त्वहो-रात्रं, शक्रपाते, तथोच्छ्रये । श्वक्रोष्टुगर्द्दभोलूकसाम-वाणार्त्तनिस्वने । अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ।देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे । भुक्त्वार्द्र-पाणिरम्भोऽन्तरर्द्धरात्रेऽतिमारुते । पांशुवर्षे दिशां दाहेसन्ध्यानीहारभीतिषु । धावतः पूतिगन्धे च शिष्टे चगृहमागते । खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे । सप्त-त्रिंशदनध्यायानेतांस्तात्कालिकान् विदुः” इति । वशिष्ठः ।“तस्यानध्यायाः सन्ध्यास्तमिते स्युस्तत्र शवे दिवाकोर्त्तौनगरेषु काम गोमयपर्य्युषिते परिलिखिते वा श्मशानान्तेशयानसा श्राद्धिकस्य । मानवञ्चात्र श्लोकमुदाहरन्ति ।फलाग्वापस्तिलान् भक्ष्यमथान्यच्छ्राद्धिकं भवेत् । प्रति-गृह्याप्यनध्यायः पाण्यास्या, ब्राह्मणाः स्मृता इति ॥
धावतः पूतिगन्धिप्रसृतेरिणवृक्षमारूढस्य, नावि, सेनायाञ्च, भुक्त्वा चार्द्धघ्राणे, वाणशब्दे, चतुर्द्दश्याममावास्यायामष्टम्या-मष्टकासु प्रसारितपादोपस्थस्योपाश्रितस्य गुरुसमीपे मिथु-नव्यपेतायां वाससा मिथुनव्यपेतेनानिर्मुक्ते न ग्रामान्ते-छर्दितस्य, मूत्रितस्योच्चरितस्य, यजुषाञ्च सायंशब्दे, वाजीर्णे निर्घातभूमौ च न चन्द्रसूर्य्योपरागेषु, दिङ्-नादपर्वतनादकम्प्रयातेषूपलरुधिरपांशुवर्षेष्वाकालिकम् ।उल्काविद्युत्सज्योतिपमपर्त्त्वाकालिकं वा । आचार्य्ये चप्रेते त्रिरात्रर्माचार्य्यपुत्रशिष्यभार्य्यास्वहोरात्रम् । ऋत्विग्-योनिसम्बन्धेषु च” इति । शङ्ख्योऽप्याह । अनव्यायेष्वव्य-यनं वर्जयेच्च प्रयत्नतः । चतुर्दशीं पञ्चदशीमष्टमीं राहु-सूतकम् । उल्कापातं महीकम्पमशौचं ग्रामविप्लवम् । इन्द्र-प्रयागं सुरतं घनसंघातनिस्वनम् । वाद्यकोलाहलं युद्ध-मनध्यायं विवर्जयेत् । नाधीयीताभियुक्तोऽपि प्रयत्नान्नच वेगत” इति । “यद्दिनमहः क्रियते तद्दिनमनध्याय”इत्युक्तेः देवोत्सवादिदिनेऽपि अनध्याय इति केचित् तेनसारस्वतोत्सवेश्रीपञ्चमीदिवसे रथयात्रोसवादौ चानध्यायः ।“महानवम्यां द्वादश्यां भरण्यामपि पर्वसु । तथाक्षय-तृतीयायां शिष्यान्नाध्यापयेद्बुधः । माघमासे तु सप्तम्यांरथाख्यायाञ्च वर्जयेदिति” हारीतः । एवं नानास्मृत्युक्ते-ष्वेषु च येन सर्वसंग्रहस्तथाचरणीयम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
