| YouTube Channel

अनग्निदग्धः (anagnidagdhaH)

 
E Bharati Sampat
Sanskrit
(वि) अग्निना दग्धः। १.श्मशानकर्मणि अग्निसंस्कारहीनः। ‘ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः’ ऋक्१०.१५२.४। २.विप्राणां पितृभेदः। ‘अग्निदग्धानग्निदग्धान् काव्यान् बर्हिषदस्तथा अग्निष्वात्तांश्च सौम्यांश्च विप्राणामेव निर्दिशेत्’ मनुः३.१९९।