| YouTube Channel

अध्वा (adhvA)

 
E Bharati Sampat
Sanskrit
(पुं) (अध्वन्)। अत्ति गमनेन बलं पथिकानां नाशयति अद(भक्षणे)+क्वनिप्+धः। ‘अदेर्धश्च’ उ० ४.११६। १.मार्गः, वर्त्मा ‘अपि लङ्घितमध्वानं बुबुधे बुधोपम:’ रघुः१.४७। २. काल:। ‘अध्वा कालवर्त्मनोः’ हैमः। ३.आकाशम्, वायुमण्डलम् ४.अधिकदुरारोहः। ५.नक्षत्रमार्गः। ६.प्रयाणम् ‘अध्वसु त्रिषु विसृष्टमैथिलः’ रघुः११.५७। ७.हिंस्रः। ८.अवस्कन्दः, आक्रमणम् ९.संस्थानम्, मृत्युः। ‘अध्वा ना पथि संस्थाने स्यादवस्कन्दकालयोः’ मेदिनी १०.अद्यते खण्डशः भक्ष्यते अनेन अवयवः। ११.वेदशाखा ‘एवं विंशत्यध्वयुक्तमृग्वेदमृषयो विदुः सहस्राध्वा सामवेदो यजुरेकशताध्वकम्’
Wordnet
Sanskrit
Synonyms:
मार्गः, पन्थाः, अयनम्, वर्त्म, सृतिः, पद्या, वर्तनिः, शरणिः, पद्धती, वर्तनिः, अध्वा, वीथिः, सरणिः, पद्धतिः, पदविः, पदवी, पद्वा, पित्सलम्, प्रचरः, प्रपथः, माचः, माथः, मारुण्डः, रन्तुः, वहः, प्रपाथ पेण्डः, अमनिः, इतम्, एमा, एवा, गन्तुः
noun
येन गत्वा गन्तव्यं प्राप्यते।
"विमानस्यापि विशिष्टः मार्गः अस्ति।"
Synonyms:
मार्गः, पथः, पन्थाः, अध्वा, वर्त्म, वर्त्मनी, वर्त्मनिः, अयनम्, वर्त्तनम्, वर्त्तनी, वर्त्तनिः, सरणी, सरणिः, पदवी, पद्धतिः, पद्धती, पद्या, पद्वा, पदविः, सृतिः, सञ्चरः, पद्वः, उपनिष्क्रमणम्, एकपदी, एकपाद्, तरः, वीथिः, शरणिः, एकपदी, एकपाद्, तरः, वीथिः, माचः, माठः, माठ्यः, प्रपाथः, पित्सलम्, खुल्लमः
noun
एकस्थानाद् अन्यस्थानं गन्तुम् उपयुज्यमानः भूभागः यः गमनस्य आधारो भवति।
"मम गृहम् अस्मिन् एव मार्गस्य वामतः वर्तते। "
शब्दकल्पद्रुमः
Sanskrit
अध्वा [न्]
पुं,
(अत्ति गमनेन बलं नाशयति, अद् +बाहुल्यात् क्वनिप्, पृषोदरादित्वात् दकारस्य धः ।)पन्थाः कालः संस्थानं अवस्कन्दः इतिमेदिनी
शास्त्रं स्कन्धः इति पाठान्तरं
अध्वगमनजन्यगुणः मेदःकफस्थूलतासौकुमार्य्य-नाशित्वं इति राजवल्लभः