| YouTube Channel

अध्वरः (adhvaraH)

 
Apte Hindi
Hindi
अध्वरः
पुं*
- "अध्वानं सत्पथं राति-इतिअध्वन्+रा+क अथवा ध्वरति कुटिलो भवति नच्+ध्वृ+अच्, ध्वरतिहिंसाकर्मा तत्प्रतिषेधो निपातः अहिंस्र-निरु*"
"यज्ञ, धार्मिक संस्कार, सोमयाग"
अध्वरः
पुं*
- "अध्वानं सत्पथं राति-इति अध्वन्+रा+क अथवा ध्वरति कुटिलो भवति नच्+ध्वृ+अच्, ध्वरतिहिंसाकर्मा तत्प्रतिषेधो निपातः अहिंस्र-निरु*"
आकाश या वायु
E Bharati Sampat
Sanskrit
(पुं) अध्वानं सन्मार्गं राति ददाति अध्वन्+रा(आदाने)+क्तः। ‘आतोऽनुपसर्गे कः’ ३.२.३। १.यज्ञः, क्रतुः। ‘तमध्वरे विश्वजिति क्षितीशं निश्शेषविश्राणितकोशजातम्’ रघुः५.१ २.वसुभेदः, अष्टवसुमध्ये द्वितीयः। ३.सावधानः। ‘अध्वरः सावधाने स्याद् वसुभेदे क्रतौ पुमान्’ मेदिनी। ४.आकाशम् ५.न ध्वरति कुटिलः भवति न+ध्वृ+अच् अकुटिलः। ‘इमं यज्ञमवताम्ध्वरं नः’ यजुः।
Wordnet
Sanskrit
Synonyms:
यज्ञः, यागः, मेधः, क्रतुः, अध्वरः, मखः, इज्या, सवः, इष्टिः, यज्ञकर्म, यजनम्, याजनम्, आहवः, सवनम्, हवः, अभिषवः, होमः, हवनम्, याज्ञिक्यम्, इष्टम्, वितानम्, मन्युः, महः, सप्ततन्तुः, दीक्षा
noun
वैदिकः विधिविशेषः यस्मिन् देवताम् उद्दिश्य वैदिकैः मन्त्रैः सह हविः प्रदीयते।
वैदिककाले यज्ञाः महत्त्वपूर्णाः आसन्। /"अफलाकाङ्क्षिभिर् यज्ञो विधिदृष्टो इज्यते। यष्टव्यम् एवेति मनः समाधाय सात्विकः॥ [भ.गी. १७।११]"
शब्दकल्पद्रुमः
Sanskrit
अध्वरः,
पुं,
(अध्वानं सन्मार्गं राति ददाति अध्वन् +रा + कः उपपदसमासः ।) यज्ञः वसुभेदः ।सावधानः इति मेदिनी
(“तमध्वरे विश्वजितिक्षितीशं” इति रघुवंशे ।)