| YouTube Channel

अध्वत्थः (adhvatthaH)

 
E Bharati Sampat
Sanskrit
(पुं) श्वह् चिरं तिष्ठति शाल्मलिवृक्षादिवत् अश्वत्थं जलमस्यास्ति इति वा ष्ठा (गतिनिवृत्तौ) + कः "सुपिस्थः" (३.२.४) १. स्वनामख्यातवृक्षविशेषः बोधिद्रुमः, चमदलः, पिप्पलः, कुञ्जराशनः, अच्युतावासः, चलपत्रः, पवित्रकः, शुभदः, बोधिवृक्षः, यज्ञिकः, गजभक्षकः, श्रीमान्, क्षीरद्रुमः विप्रः, मङ्गल्यः, श्यामलः, गुह्यपुष्पः, सेव्यः, सत्यः, शुचिद्रुमः, धनुवृक्षः ‘बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः अश्वस्थे’ (अमरः) "अश्वत्थः सर्ववृक्षाणां देवर्षीणां नारदः" (गीता १.२६) २. संसारवृक्षः "ऊर्ध्वमूलमधशाखमश्वत्थं प्रारुरव्ययम्" (गीता १५.१) अश्व इव तिष्ठति ३. अश्विनीनक्षत्रम् अश्वत्थेन अश्विनीनक्षत्रेण युक्तः कालः ष्ठा (गतिनिवृत्तौ)+अण् +लुप् "नक्षत्रेण युक्तः कालः" (४.१.३) "संज्ञायां श्रवणाश्वत्थाभ्याम्" ४.१.५) ४. अश्विनीनक्षत्रयुक्तकालः "अश्वत्थो मुईर्तः" (सि.कौ) ५. अश्वत्थफलम्