| YouTube Channel

अध्येतव्यः (adhyetavyaH)

 
E Bharati Sampat
Sanskrit
(वि) अध्येतुम् अर्हः। अधि+इङ्(अध्ययने)+तव्यत् ‘तव्यत्तव्या०’ ३.१.९६। १.अध्ययनीयः, पठनीयः। ‘श्रोतव्यमिह शूद्रेण नाध्येतव्यं कदाचन’ स्मृतिः। २.पाठ्यः, अवश्यं पठनीयः। ‘स्वाध्यायोऽध्येतव्यः’ श्रुतिः।