अध्यायः (adhyAyaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiअध्यायः
- अधि+इ+घञ्
"पढ़ना, अध्यापन, विशेषतः वेदों का "
अध्यायः
- अधि+इ+घञ्
पाठ या पढ़्ने के लिये उचित समय
अध्यायः
- अधि+इ+घञ्
पाठ व्याख्यान
अध्यायः
- अधि+इ+घञ्
"खण्ड, किसी रचना के भाग "
E Bharati Sampat
Sanskrit(पुं) अधि+इङ्(अध्ययने)+घञ् । ‘इङश्च’ ३.३.२१ । १.अध्ययनम्, वेदाध्ययनम् । ‘स्वाध्यायोऽध्येतव्यः’ श्रुतिः। २.वेदपुराणादिपरिच्छेदः, ग्रन्थसन्धिः। ‘परिच्छेदोद्घाताध्यायाङ्कसङ्गृहाः’ त्रिका०।‘अध्यायं प्राप्य विरमेन्नतु मध्ये कदाचन’ म०सू०। ३.पाठः, व्याख्यानम् ।
Wordnet
Sanskrit अध्यायः, पर्वम्, युगम्
कस्यापि व्यक्तेः जीवनकालः अथवा इतिहासस्य कोऽपि विशिष्टः कालखण्डः।
"मुम्बइ-नगर्यां यद् भयावहम् अभूत् तेन आतङ्कवादिभिः कोऽपि नूतनः अध्यायः प्रारब्धः इत्येव सूचितम्।"
काण्डः, काण्डम्, सर्गः, अध्यायः, उल्लासः, पर्व
कस्यापि विषयस्य ग्रन्थस्य वा विभागः।
"रामायणस्य सप्त काण्डाः सन्ति।"
पाठः, अध्यायः
सकृत् पाठनम् पाठः
"हरिः पाठस्य पठनम् करोति"
अध्यायः, पाठः, परिच्छेदः, सर्गः, वर्गः, उद्घातः, अङ्कः, संग्रहः, उच्छ्वासः, परिवर्तः, पटलः, पर्वः, आह्निकम्, प्रकरणम्
ग्रन्थसन्धिः।
"उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विवरणं कृतम्।"
अध्यायः, परिच्छेदः, अध्ययः, सर्गः, पर्वः, विच्छेदः, स्कन्धः, प्रकरणम्, प्रस्तावः, अङ्कः, वर्गः, शाखा, उल्लासः, उच्छ्वासः, आश्वासः, उद्यतः
एकविषयप्रतिपादनदृष्ट्या ग्रन्थस्थितप्रकरणस्य अवयवः।
"अस्मिन् अध्याये प्रभुरामचन्द्रस्य जन्मनः अद्भुतं वर्णनम् अस्ति।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Tamil
Tamilஅத்4யாய: : பாடம், அத்யாயம்.
शब्दकल्पद्रुमः
Sanskritअध्यायः, (अधि + इङ् + भावे घञ् अध्ययनम् ।)वेदपुराणादिपरिच्छेदः । ग्रन्थसन्धिः । तन्नामान्त-राणि यथा । सर्गः । वर्गः । परिच्छेदः । उद्घातः ।अङ्कः । संग्रहः । उच्छूआसः । परिवर्त्तः । पटलः ।काण्डं । स्थानं । प्रकरणं । पर्व्व । आह्निकं । इतित्रिकाण्डशेषः ॥
स्कन्धः । स्तवकः । उल्लासः ।पादः । उद्योतः । विरचनं । इत्याद्यपि ॥
यदुक्तम् ।(“सर्गोवर्गपरिछेदोद्घाताध्यायाङ्कसंग्रहाः ।उच्छूआसः परिवर्त्तश्च पटलः काण्डमेव च ॥
स्यानं प्रकरणं चैव पर्व्वोल्लासाह्णिकानि च ।पुराणादौ परिच्छेदा अनेके परिकीर्त्तिताः ॥
”)
कृदन्तरूपमाला
Sanskrit1 {@“इक् स्मरणे”@} 2 ‘अयत्येतीयते गत्यां अधीतेऽध्येति चेङिकोः।’ 3 इति देवः।
नित्यमधिपूर्वकः।
अध्यायकः-यिका, 4 अधिगमकः-मिका, 5 अधिजिगमिषकः-षिका
अध्येता-त्री, अधिगमयिता-त्री, अधिजिगमिषिता-त्री
6 अधीयन्-न्ती, अधियन्, अधिगमयन्-न्ती, अधिजिगमिषन्-न्ती
अध्येष्यन्-न्ती-ती, अधिगमयिष्यन्-न्ती-ती, अधिजिगमिषिष्यन्-न्ती-ती
-- अधिगमयमानः, अधिगमयिष्यमाण
7 अधीत् 8 -अधीतौ-अधीतः
-- -- अधीतः-तम्, अधिगमितः, अधिजिगमिषितः-तवान्
अध्ययः, 9 मन्त्राध्यायः, अधिजिगमिषुः, अधिजिगमयिषुः
अध्येतव्यम्, अधिगमयितव्यम्, अधिजिगमिषितव्यम्
अध्ययनीयम्, अधिगमनीयम्, प्रत्यायनीयम्, अधिजिगमिषणीयम्
अध्येयम्, प्रत्याय्यम्, अधिगम्यम्, अधिजिगमिष्यम्
10 अधीत्यः, प्रत्याय्यम्, अधिगम्यम्, अधिजिगमिष्यम्
ईषदध्ययः, दुरध्ययः, स्वध्ययः
-- -- अधीयमानः, अधिगम्यमानः, प्रत्याय्यमानः, अधिजिगांस्यमानः 11
अध्यायः, अधिगमः, प्रत्यायः, अधिजिगमिषः
अध्येतुम्, अधिगमयितुम्, अधिजिगमिषितुम्
अधीतिः, अधिगमना, अधिजिगमिषा, अधिजिगमयिषा
अध्ययनम्, अधिगमनम्, अधिजिगमिषणम्
12 अधीत्य, 13 अधिगमय्य, अधिजिगमिष्य
अध्यायम् २, 14 अधिगमम् २, अधिगामम् २, अधिजिगमिषम् २
01 (६२)
02 (२-अदादिः-१०४७-सक। अनिट्-पर।)
03 (१४)
04 [[५। ‘णौ गमिरबोधने’ (२-४-४६) ‘इण्वदिकः’ (वा। २-४-४५) इत्यतिदेशात् गमादेशः। अमन्तत्वेन मित्त्वात् ‘मितां हस्वः’ (६-४-९२) इति उपधाह्रस्वः। अन्यत्र--बोधने प्रत्याययकः-यिका-प्रत्यायितम्--इत्यादि।]]
05 [[६। ‘सनि च’ (२-४-४७) इति गमादेशः। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इतीडागमः। बोधने तु प्रतीषिषकः इत्यादि।]]
06 [[आ। ‘सूतोऽपि गङ्गासलिलैः पवित्वा सहाश्वमात्मानमनल्पमन्युः। ससीतयो राघव- योरधीयन् श्वसन् कदुष्णं पुरमाविवेश।।’ भ। का। ३-१८ ‘इण्वदिकः’ (वा। २-४-४५) इति अतिदेशेन ‘इणो यण्’ (६-४-८१) इत्यत्र यणा भाव्यम्। तदानीं ‘अधियन्’ इति रूपमिति केचित्।]]
07 [पृष्ठम्००६३+ २७]
08 [[१। ‘षत्वतुकोरसिद्धः’ (६-१-८६) इत्येकादेशस्यासिद्धत्वात् तुक्।]]
09 [[२। ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]
10 [[आ। ‘इण्वदिकः (वा। २-४-४५)’ इत्यतिदेशात्-- ‘एतिस्तु’ (३-१-१०९) इति क्यपि ‘अधीत्य’ इति रूपम्। ‘इत्यः स्वधीतोपनिषद्भिरेषामधीत्यरूपः स वियम् क्रमेण।’ धा। का। २-४८। इति प्तयोगः। ‘… ‘एतिस्तु--’ (३-१-१०९) इति क्यब्विधौ नित्यमधिपूर्वत्वादस्यैतिग्रहणेन न ग्रहः। तथा च भाष्ये-- ‘अध्येयं व्याकरणं’ इति यदन्तो निर्दिश्यते’ इति माधवधातुवृत्तौ।]]
11 [[३। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
12 [[४। ‘षत्वतुकोरसिद्धः’ (६-१-८६) इत्येकादेशशास्त्रासिद्ध्या तुक्।]]
13 [[५। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
14 [[६। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति दीर्घविकल्पः।]]
1 {@“इङ् अध्ययने”@} 2 नित्यमधिपूर्वः।
‘अयत्येतीयते गत्यां, अधीतेऽध्येति चेङिकोः।’ इति 3 देवः।
‘धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्तते।
विशिनष्टि तमेवार्थमुपसर्गगतिस्त्रिधा।।’ इति क्षीरतरङ्गिण्यामुद्धृतः श्लोकः।
अध्यायकः-यिका, 4 अध्यापकः-पिका, 5 अधिजिगमिषकः-षिका
अध्येता-त्री, अध्यापयिता-त्री, अधिजिगमिषिता-त्री
6 अधीयन् पारायणम्, 7 अध्यापयन्- 8 न्ती, अध्यापयिष्यन्-न्ती-ती
9 अधीयती, 10 अध्यापयन्- 11 न्ती, अध्यापयिष्यन्-न्ती-ती
12 अधीयानः, 13 -- अधिजिगांसमानः 14
अध्येष्यमाणः, -- 15 अधिजिगांसिष्यमाणः
16 अधीतः 17 -तम्, अध्यापितः, अधिजिगमिषितः-तवान्
अध्ययः, 18 मन्त्राध्यायः, अध्यापः, अधिजिगमिषुः, 19 अधिजिगापयिषुः
अध्यापिपयिषुः
अध्येतव्यम्, अद्यापयितव्यम्, अधिजिगमिषितव्यम्
अध्ययनीयम्, अध्यापनीयम्, अधिजिगमिषणीयम्
अध्येयम्, अध्याप्यम्, अधिजिगमिष्यम्
ईषदध्ययः, दुरध्ययः, स्वध्ययः
-- 20 अधीयमानः, अध्याप्यमानः, अधिजिगांस्यमानः
21 अध्यायः, 22 अध्यायः, 23 उपाध्यायः, उपाध्याया, 24 उपाध्यायी, 25 उपाध्यायानी, अध्यापः, अधिजिगमिषः
अध्येतुम्, अध्यापयितुम्, अधिजिगमिषितुम्
अधीतिः, अध्यापना, अधिजिगमिषा, अधिजिगापयिषा, अध्यापिपयिषा
अध्ययनम्, अध्यापनम्, अधिजिगमिषणम्
अधीत्य, अध्याप्य, अधिजिगमिष्य
अध्यायम् २, अध्यापम् २, अधिजिगमिषम् २
01 (६६)
02 (२-अदादिः-१०४६। सक-अनिट्-आत्म।)
03 (श्लो १४)
04 [[१। ‘क्रीङ्जीनां णौ’ (६-१-४८) इति आत्वे ‘अर्तिही--’ (७-३-३६) इति पुक्।]]
05 [[२। ‘इङश्च’ (२-४-४८) इति सनि गमिः। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इति इट्। ‘परस्मैपदेषु’ इत्यस्य ‘तङानयोरभावे’ इत्यर्थः।]]
06 [[३। ‘इङ्धार्योः शत्रकृच्छ्रिणि’ (३-२-१३०) इति शता।]]
07 [[आ। ‘वाचंयमान् स्थण्डिलशायिनश्च युयु- क्षमाणान् अनिशं मुमुक्षून्। अध्या- पयन्तं विनयात् प्रणेमुः पद्गाः भरद्वाजमुनिं सशिष्यम्।।’ भ। का। ३-४१।]]
08 [[५। ‘बुधयुधनशजनेङ्--’ (१-३-८६) इति ण्यन्तात् परस्मैपदमेव।]]
09 [[४। ‘उगितश्च’ (६-३-४५) इति स्त्रियां ङीप्। अधीयन् पारायणं अकृ- च्छ्रेणाधीयान इत्यर्थः।]]
10 [[आ। ‘वाचंयमान् स्थण्डिलशायिनश्च युयु- क्षमाणान् अनिशं मुमुक्षून्। अध्या- पयन्तं विनयात् प्रणेमुः पद्गाः भरद्वाजमुनिं सशिष्यम्।।’ भ। का। ३-४१।]]
11 [[५। ‘बुधयुधनशजनेङ्--’ (१-३-८६) इति ण्यन्तात् परस्मैपदमेव।]]
12 [[६। इयड् पूर्वम्। पश्चात् दीर्घः।]]
13 [[B। ‘ऋग्यजुषमधीयानान् सामन्यांश्च समर्चयन्। बुभुजे देवसात्कृत्वा शूल्यमुख्यं च होमवान्।।’ भ। का। ४-९।]]
14 [[७। ‘इङश्च’ (२-४-४८) इति गमादेशः। ‘अज्झनगमां सनि’ (६-४-१६) दीर्घः।]]
15 [[८। ‘आर्धधातुकस्येट्--’ (७-२-३५) इतीट्।]]
16 [पृष्ठम्००६७+ ४२]
17 [[आ। ‘इत्यः स्वधीतोपनिषद्भिरेषामधी- त्यरूपः स वियन् क्रमेण। इयञ्जनं राजपथं समायात् वाताकुलोद्भातव- ताकमीशः।।’ धा। का। २-४८।]]
18 [[१। ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]
19 [[२। ‘णौ च संश्चङोः।’ (२-४-५१) इति गादेशः वा, पक्षे आत्वे पुकि अध्या- पिपयिषुः इति रूपम्।]]
20 [[३। कर्मणि युक्।]]
21 [[४। ‘अध्यायन्याय--’ (३-३-१२२) इति संज्ञायां अधिकरणे घञ्। घाप- वादः।]]
22 [[५। ‘इङश्च’ (३-३-२१) इति भावादौ घञ् असंज्ञायाम्। अध्ययन- मध्यायः।]]
23 [[B। ‘ततः कपिसमाहारं एकनिश्चायमा- गतम्। उपाध्याय इवायामं सुग्रीवोऽध्यापिपद् दिशाम्।।’ भ। का। ७-३४।]]
24 [[६। ‘अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष्’ (वा। ३-३-२१) इति ङीष् वा।]]
25 [[C। ‘मातुलोपाध्याययोरानुग् वा’ (वा। ४-१-४९।) इति स्त्रियामानुग् वा।]]
1 {@“इण् गतौ”@} 2 ‘अयत्येतीयते गत्याम्, अधीतेऽध्येति चेङिकोः’ 3 इति देवः।
4 आयकः-यिका, 5 गमकः-मिका, 6 प्रत्यायकः-यिका, 7 जिगमिषकः-षिका, 8 प्रतीषिषकः-षिका
एता-त्री, आययिता-त्री, गमयिता-त्री, जिगमिषिता-त्री, प्रतीषिषिता-त्री
9 यन् 10 निर्यन् यती, प्रत्याययन्-न्ती, गमयन्-न्ती, जिगमिषन्-न्ती, प्रतीषिषन्-न्ती
एष्यन्- 11 न्ती-ती, प्रत्याययिष्यन्-न्ती-ती, गमयिष्यन्-न्ती-ती, जिगमिषिष्यन्- न्ती-ती, प्रतीषिषिष्यन्-ती-न्ती
-- प्रत्याययमानः, प्रत्याययिष्यमाणः
-- 12 परीत्-परीतौ-परीतः
-- -- इतं- 13 इतः-इतवान्, 14 उपेतः, प्रत्यायितः, अवगमितः, जिगमिषितः, प्रतीषितः-तवान्
15 अयः, आयः, गमः, 16 इत्वरः, 17 उपेयिवान् 18, ईयिवान् 19, समीयिवान्- 20 उपेयुषी, 21 अत्ययी, 22 अत्यायः, जिगमिषुः, जिगमयिषुः, परीषिषुः
एतव्यम्, 23 उपैतव्यम्, प्रत्याययितव्यम्, गमयितव्यम्, जिगमिषितव्यम्, प्रतीषिषितव्यम्
अयनीयम्, प्रत्यायनीयम्, गमनीयम्, जिगमिषणीयम्, प्रतीषिषणीयम्
24 इत्यम् 25, अनभ्याशमित्यः 26, प्रत्याय्यम्, अवगम्यम्, जिगमिष्यम्, प्रतीषिष्यम्
ईषदयः, -दुरयः-स्वयः, ईषदायः-ईषदवगमः-इत्यादि
-- 27 ईयमानः, प्रत्याय्यमानः, अवगम्यमानः, 28 जिगांस्यमानः, प्रतीष्यमाणः
29 आयः, 30 न्यायः 31, 32 पर्यायः, 33 34 अध्यायः, समयः, 35 अन्वयः, उदयः, न्ययः, व्ययः, 36 अभ्युदयः, न्यायः 37 अवगमः, प्रत्यायः
एतुम्, प्रत्याययितुम्, गमयितुम्, जिगमिषितुम्, प्रतीषिषितुम्
38 इत्या, अपीतिः, 39 समितिः, इतिः, समित् 40, प्रत्यायना, अवगमना, जिगमिषा, जिगमयिषा, प्रतीषिषा, प्रत्याययिषा
अयनम्, 41 अन्तरयणम् 42, अन्तरयनो 43, प्रत्यायनम्, अवगमनम्, जिगमिषणम्, प्रतीषिषणम्
इत्वा, आययित्वा, गमयित्वा, जिगमिषित्वा, ईषिषित्वा
उपेत्य-परीत्य, प्रत्याय्य, 44 अवगमय्य, अवजिगमिष्य, प्रतीषिष्य
45 आयम् २, इत्वा २, प्रत्यायम् २, आययित्वा २, 46 अवगमम् २ अवगामम् २ गमयित्वा २, -- -- -- -- जिगमिषम् २, जिगमिषित्वा २, प्रतीषिषम् २
ईषिषित्वा २
01 (६८)
02 (२-अदादिः-१०४५-अनिट्। सक-पर-)
03 (१४ श्लो।)
04 [[१। ‘अचो ञणति’ (७-२-११५) इति वृद्धौ आयादेशः।]]
05 [[२। ‘णौ गमिरबोधने’ (२-४-४६) इति गमादेशः। अमन्तत्वान्मित्त्वेन उपधाह्रस्वः।]]
06 [[३। इणो बोधनार्थकत्वात् ‘अबोधने’ (२-४-४६) इत्युक्त्या गमादेशाभावः।]]
07 [[४। ‘सनि च’ (२-४-४७) इति गमादेशः। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इत्यत्र ‘परस्मैपदेषु’ इत्यस्य तङानयोरभावे--इत्यर्थकतया अत्र सन इड् भवति।]]
08 [[५। ‘सनि च’ (२-४-४७) इत्यत्रापि ‘अबोधने’ इत्यनुवृत्त्या गमादेशाभावे, अजादि- त्वाद् ‘अजादेर्द्वितीयस्य’ (६-१-२) इति द्वितीयस्यैकाचो द्वित्वे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
09 [[६। ‘इणो यण्’ (६-४-८१) इति यणादेशः।]]
10 [[आ। ‘निर्यत्स्फुलिङ्गाकुलधूमराशिं किं ब्रूहि भूमौ पिनषाम भानुम्। आदन्तनिष्पी- डितपीतमिन्दुं ष्ठीवाम शुष्केक्षुलताऽस्थिकल्पम्’।। भ। का। १२-१८।]]
11 [[७। ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुमागमस्य वैकल्पिकत्वात् रूपद्वयम्।]]
12 [[८। ‘षत्वतुकोरसिद्धः’ (६-१-८६) इत्यनेन एकादेशशास्त्रस्यासिद्धत्वात् तुक्।]]
13 [[B। ‘अहृत धनेश्वरस्य युधि यः समेतमायो धनं तमहमितो विलोक्य बिबुधैः कृतोत्त- मायोधनम्।’ भ। का। १०-३६।]]
14 [[९। आ + इतः एतः, उप × एत = इति स्थिते ‘एत्येधत्यूठ्सु’ (६-१-८९) इति वृद्धिं बाधित्वा, ‘ओमाङोश्च’ (६-१-९५) इति पररूपम्।]]
15 [पृष्ठम्००६९+ २४]
16 [[१। ‘इण्नशिजिसर्तिभ्यः--’ (३-२-१६३) इति तच्छीलादिषु क्वरप्। तुक्।]]
17 [[आ। ‘रावणः शुश्रुवान् शत्रून् राक्षसानभ्युपेयुषः। स्वयं युयुत्सयांचक्रे प्राकाराग्रे निषेदिवान्।।’ भ। का। १४-२२।]]
18 [[२। ‘उपेयिवाननाश्वान्--’ (३-२-१०९) इति क्वसुप्रत्ययान्तो निपातितः। ‘उप’ इत्यस्याविवक्षितत्वात्-समीयिवान्-ईयिवान्-इत्याद्यपि सिद्ध्यति। ‘दीर्घ इणः किति’ (७-४-६९) इति दीर्घः।]]
19 [[B। ‘निवृत्ते भरते धीमान् अत्रे रामस्तपोवनम्। प्रपेदे पूजितस्तस्मिन् दण्डकारण्य- मीयिवान्।।’ भ। का। ४-१।]]
20 [[३। ‘उगितश्च’ (४-१-६) इति ङीप्। ‘वसोः सम्प्रसारणम्’ (६-४-१३१) इति सम्प्रसारणम्।]]
21 [[४। ‘जिदृक्षिविश्रीण्--’ (३-२-१५७) इत्यनेन तच्छीलादिषु इनिः।]]
22 [[५। ‘श्याद्व्यधाश्रुसंस्रतीण्--’ (३-१-१४१) इति ‘अति’ इत्युपसृष्टादस्मात् कर्तरि णः प्रत्ययः।]]
23 [[६। ‘एत्येधत्यूठ्सु’ (६-१-८९) इति वृद्धिः।]]
24 [[C। ‘आदृत्यस्तेन वृत्येन स्तुत्यो जुष्येण सङ्गतः। इत्यः शिष्येण गुरुवत् गृध्यमर्थमवा- प्स्यसि’ भ। का। ६-५५।]]
25 [[७। ‘एतिस्तुशास्--’ (३-१-१०९) इति क्यपि तुक्।]]
26 [[८। ‘इत्येऽनभ्याशस्य’ (वा-६-३-७०) इति पूर्वपदस्य मुम्।]]
27 [[९। ‘अकृत्सार्वधातुकयो--’ (७-४-२५) रिति दीर्घः।]]
28 [[१०। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। आत्मनेपदपरकत्वात् सनो नेट्।]]
29 [पृष्ठम्००७०+ ३०]
30 [[आ। ‘नरकस्यावतारोऽयं प्रत्यक्षोऽस्माकमागतः। अचेष्टा यदिहान्यायात् अनेनात्स्या- महे वयम्।।’ भ। का। ७-८२।]]
31 [[१। संज्ञायाम् ‘अध्यायन्याय--’ (३-३-१२२) इत्यादिना घापवादो घञ् निपातितः। न्याय इति शास्त्रस्य संज्ञा। न्येति--निश्चिनोति इति शास्त्रयुक्त्यादिरत्र न्यायः। न अभ्रेषः।]]
32 [[२। ‘परावनुपात्यय इणः’ (३-३-३८) इति अजपवादो घञ्। क्रमस्यानतिक्रमोऽनुपा- त्ययः।]]
33 [[B। ‘न्याय्यं यद्यत्र तत् कार्यं पर्यायेणाविरोधिभिः। निशोपशायः कर्तव्यः फलो- च्चायश्च संहतैः।।’ भ। का। ७-४१।]]
34 [[३। ‘अध्यायन्याय--’ (३-३-१२२) इत्यादिना घापवादो घञ् निपातितः। संज्ञायाम्]]
35 [[४। ‘एरच्’ (३-३-५६) इति भावेऽच्। एवं ‘अभ्युदय’ इति यावदच् प्रत्ययः।]]
36 [[C। ‘निराकरिष्णुर्द्विजकुञ्जराणां तृणीकृताशेषगुणोऽतिमोहात्। पापाशयान् अभ्युदया- र्थमार्च्छीत् प्राग्ब्रह्मरक्षःप्रवरान् दशास्यः।।’ भ। का। ११-४४।]]
37 [[५। ‘परिन्योर्नीणोर्द्यूताभ्रेषयोः’ (३-३-३७) इति घञ्। अभ्रेषोऽस्खलनम्। न्याये स्थितः।]]
38 [[६। ‘संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः’ (३-३-९९) इति स्त्रियां भावे क्यप्।]]
39 [[७। बाहुलकात् क्तिन्नपि--इत्यात्रेयः। समितिः = सभा।]]
40 [[८। ‘संपदादित्वात्--’ (३-३-९४) स्त्रियां भावादौ क्विप्। समित् = युद्धः।]]
41 [[९। ‘अयनं च’ (८-४-२५) इत्यदेशे णत्वम्। देशविशेषे तु न--अन्तरयनो देशः। ‘अन्तश्शब्दस्याङ्किविधिणत्वेषु उपसर्गत्वं वक्तव्यम्’ (वा। १-४-५८) इति वचनात् उपसर्गत्वम्। ‘कृत्यच’ (८-४-२९) इत्यनेनैव सिद्धे, देशे णत्वाभावाय ‘अयनं च’ (८-४-२५) इति सूत्रारम्भः।]]
42 (वर्तते)
43 (देशः)
44 [[१०। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
45 [पृष्ठम्००७१+ २६]
46 [[१। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुलि दीर्घविकल्पः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
