| YouTube Channel

अध्याप्यः (adhyApyaH)

 
E Bharati Sampat
Sanskrit
(वि) अध्यापयितुम् अर्हः। अधि+इङ्(अध्ययने)+णिच्+यत् ‘अचो यत्’ ३.१.१७। १.अध्यापयितुम् अर्हः छात्रः, पाठनीयः। ‘ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासो जितेन्द्रियः’ मनुः। (अ) अध्याप्य अधि+इङ्(अध्ययने)+णिच्+ल्यप् ‘समासे०ल्यप्’१.३.३६। २.उपदिश्य, पाठयित्वा ३.अधि+आप्लृ(व्याप्तौ)+णिच्+ल्यप् प्राप्य