| YouTube Channel

अध्यर्द्ध (adhyarddha)

 
वाचस्पत्यम्
Sanskrit
अध्यर्द्ध
त्रि०
अधिकमर्द्धं यस्य ब० स्वार्द्धेन सहिते वस्तुमात्रे ।“एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्द्धं ततोऽनुज” इति मनुः ।एकाधिकमंशं द्वावंशाविति यावत् ज्येष्ठपुत्त्रो गृह्णीयात्अधिकमर्द्धं यत्रांशे सार्द्धमंशं इति कुल्लू० अर्द्धशब्दःरूपकार्द्धेरूढः तेन सार्द्धरूपके अध्यर्द्धपूर्व्वात् क्रीताद्यर्थे“अध्यर्द्धपूर्व्वद्विगोर्लुगसंज्ञायामिति” पा० अध्यर्द्धपूर्व्वात्द्विगोश्चार्हीयस्य टञो लुक् अध्यर्द्धकंसम् “विंशति-कात्ख” इति पा० खविधान्न लुक् अध्यर्द्ध-विंशतिकीनं “खार्य्याईकन्” पा० अध्यर्द्धखारी-कम् “पणपादमाषशताद्यत्” पा० अध्यर्द्धपण्यं अध्यर्द्ध-पाद्यम् अध्यर्द्धमाष्यम् अध्यर्द्धशत्यम् “शाणाद्वेति” पा०यत् ठञ् तस्य लुक्च वेति अध्यर्द्धशाण्यम् अध्यर्द्धशाणम् ।इत्यादयः शब्दाः तत्क्रीतार्थे
त्रि०
अध्यृध्नोति यत्र अधि +ऋध--आधारे घञ् वायौ “कत्येव देवा याज्ञवल्क!इति” याज्ञवल्क्यं प्रति शाकल्यप्रश्ने तत्र याज्ञवल्क्येन“अध्यर्द्ध” इत्युत्तरं (बृ० उ०) दत्तम् तस्य विशेषज्ञानाय“कतमोऽध्यर्द्ध”? इति पुनः शाकल्यप्रश्ने, “योऽयं पवत”इत्युक्तं तत्र पवत इत्यनेन वायुरुक्तः “तदाहुर्यदयमेकएषपवते अथ कथमध्यर्द्ध”? इति वायोरेकत्वेन अध्यर्द्ध-शब्दार्थस्य सार्द्धत्वस्यासम्भवे पुनराक्षिप्ते “यदस्मिन् इदं सर्व-मध्यार्ध्नोत् तेनाध्यर्द्ध” इत्युत्तरम् तेन अधिकवृद्धिहेतुत्वात्वायोरध्यर्द्धत्वात् तथात्वम् अधि + ऋध--लङ् अध्यार्ध्नोत्