| YouTube Channel

अधृष्यः (adhRSyaH)

 
E Bharati Sampat
Sanskrit
(वि) धृष्यः। १.प्रगल्भः, अनभिभवनीयः, अजेयः। ‘अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः’ रघुः१.१६। २.धैर्यशून्यः। ३.लज्जाशीलः। (स्त्री) अधृष्या नदीभेदः, तटिनीभेदः। ‘अधृष्या तटिनीभेदे प्रगल्भे वाच्यलिङ्गकः’ मेदिनी
शब्दकल्पद्रुमः
Sanskrit
अधृष्यः, त्रि, (धृष् + कर्म्मणि क्यप् ।) प्रगल्मः ।अधर्षणीयः इति मेदिनी
(यथा रघुवंशे, --“भीमकान्तैर्नृपगुणैः बभूवोपजीविनां ।अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः” ।)