| YouTube Channel

अधृष्टः (adhRSTaH)

 
E Bharati Sampat
Sanskrit
(वि) धृष्टः। १.सलज्जः, अप्रगल्भः, शालीनः। ‘स्यादधृष्टे तु शालीनः’ अमरः। २.धैर्यरहितः। ३.अजेयः, अनभिभूतः। ‘यन्तं नो मित्रावरुणावधृष्टम्’ ऋक् ६.६७.२। ४.अहिंसितः। ‘दूतासोवसवोऽधृष्टाः’ ऋक् ६.५०.४।
शब्दकल्पद्रुमः
Sanskrit
अधृष्टः, त्रि, (धृष् + क्तः, धृष्टः नञ्समासः ।)सलज्जः तत्पर्य्यायः अप्रगल्मः इति शब्द-रत्नावली
शारदः अप्रतिभः इति जटा-धरः
शालीनः इत्यमरः