| YouTube Channel

अधीत्य (adhItya)

 
Spoken Sanskrit
English
अधीत्य adhItya ppp. having gone over
अधीत्य adhItya ppp. having studied
Monier Williams Cologne
English
अधीत्य
ind.
p.
having gone over, having studied.
Monier Williams 1872
English
अधीत्य, ind. having gone over, having studied.
Kridanta Forms
Sanskrit
(इ॒ङ् अध्ययने नित्यमधिपूर्वः - अदादिः - अनिट्)
ल्युट् = अध्ययनम्
अनीयर् = अध्ययनीयः - अध्ययनीया
ण्वुल् = अध्यायकः - अध्यायिका
तुमुँन् = अध्येतुम्
तव्य = अध्येतव्यः - अध्येतव्या
तृच् = अध्येता - अध्येत्री
क्त्वा = अधीत्य
ल्यप् = प्राधीत्य
क्तवतुँ = अधीतवान् - अधीतवती
क्त = अधीतः - अधीता
शानच् = अधीयानः - अधीयाना
(इ॒क् स्मरणे अयमप्यधिपूर्वः - अदादिः - अनिट्)
ल्युट् = अध्ययनम्
अनीयर् = अध्ययनीयः - अध्ययनीया
ण्वुल् = अध्यायकः - अध्यायिका
तुमुँन् = अध्येतुम्
तव्य = अध्येतव्यः - अध्येतव्या
तृच् = अध्येता - अध्येत्री
क्त्वा = अधीत्य
ल्यप् = प्राधीत्य
क्तवतुँ = अधीतवान् - अधीतवती
क्त = अधीतः - अधीता
शतृँ = अधियन् - अधियती
कृदन्तरूपमाला
Sanskrit
1 {@“इक् स्मरणे”@} 2 ‘अयत्येतीयते गत्यां अधीतेऽध्येति चेङिकोः।’ 3 इति देवः।
नित्यमधिपूर्वकः।
अध्यायकः-यिका, 4 अधिगमकः-मिका, 5 अधिजिगमिषकः-षिका
अध्येता-त्री, अधिगमयिता-त्री, अधिजिगमिषिता-त्री
6 अधीयन्-न्ती, अधियन्, अधिगमयन्-न्ती, अधिजिगमिषन्-न्ती
अध्येष्यन्-न्ती-ती, अधिगमयिष्यन्-न्ती-ती, अधिजिगमिषिष्यन्-न्ती-ती
-- अधिगमयमानः, अधिगमयिष्यमाण
7 अधीत् 8 -अधीतौ-अधीतः
-- -- अधीतः-तम्, अधिगमितः, अधिजिगमिषितः-तवान्
अध्ययः, 9 मन्त्राध्यायः, अधिजिगमिषुः, अधिजिगमयिषुः
अध्येतव्यम्, अधिगमयितव्यम्, अधिजिगमिषितव्यम्
अध्ययनीयम्, अधिगमनीयम्, प्रत्यायनीयम्, अधिजिगमिषणीयम्
अध्येयम्, प्रत्याय्यम्, अधिगम्यम्, अधिजिगमिष्यम्
10 अधीत्यः, प्रत्याय्यम्, अधिगम्यम्, अधिजिगमिष्यम्
ईषदध्ययः, दुरध्ययः, स्वध्ययः
-- -- अधीयमानः, अधिगम्यमानः, प्रत्याय्यमानः, अधिजिगांस्यमानः 11
अध्यायः, अधिगमः, प्रत्यायः, अधिजिगमिषः
अध्येतुम्, अधिगमयितुम्, अधिजिगमिषितुम्
अधीतिः, अधिगमना, अधिजिगमिषा, अधिजिगमयिषा
अध्ययनम्, अधिगमनम्, अधिजिगमिषणम्
12 अधीत्य, 13 अधिगमय्य, अधिजिगमिष्य
अध्यायम् २, 14 अधिगमम् २, अधिगामम् २, अधिजिगमिषम्
प्रासङ्गिक्यः
01
=>
(६२)
02
=>
(२-अदादिः-१०४७-सक। अनिट्-पर।)
03
=>
(१४)
04
=>
[[५। ‘णौ गमिरबोधने’ (२-४-४६) ‘इण्वदिकः’ (वा। २-४-४५) इत्यतिदेशात् गमादेशः। अमन्तत्वेन मित्त्वात् ‘मितां हस्वः’ (६-४-९२) इति उपधाह्रस्वः। अन्यत्र--बोधने प्रत्याययकः-यिका-प्रत्यायितम्--इत्यादि।]]
05
=>
[[६। ‘सनि च’ (२-४-४७) इति गमादेशः। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इतीडागमः। बोधने तु प्रतीषिषकः इत्यादि।]]
06
=>
[[आ। ‘सूतोऽपि गङ्गासलिलैः पवित्वा सहाश्वमात्मानमनल्पमन्युः। ससीतयो राघव- योरधीयन् श्वसन् कदुष्णं पुरमाविवेश।।’ भ। का। ३-१८ ‘इण्वदिकः’ (वा। २-४-४५) इति अतिदेशेन ‘इणो यण्’ (६-४-८१) इत्यत्र यणा भाव्यम्। तदानीं ‘अधियन्’ इति रूपमिति केचित्।]]
07
=>
[पृष्ठम्००६३+ २७]
08
=>
[[१। ‘षत्वतुकोरसिद्धः’ (६-१-८६) इत्येकादेशस्यासिद्धत्वात् तुक्।]]
09
=>
[[२। ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]
10
=>
[[आ। ‘इण्वदिकः (वा। २-४-४५)’ इत्यतिदेशात्-- ‘एतिस्तु’ (३-१-१०९) इति क्यपि ‘अधीत्य’ इति रूपम्। ‘इत्यः स्वधीतोपनिषद्भिरेषामधीत्यरूपः वियम् क्रमेण।’ धा। का। २-४८। इति प्तयोगः। ‘… ‘एतिस्तु--’ (३-१-१०९) इति क्यब्विधौ नित्यमधिपूर्वत्वादस्यैतिग्रहणेन ग्रहः। तथा भाष्ये-- ‘अध्येयं व्याकरणं’ इति यदन्तो निर्दिश्यते’ इति माधवधातुवृत्तौ।]]
11
=>
[[३। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
12
=>
[[४। ‘षत्वतुकोरसिद्धः’ (६-१-८६) इत्येकादेशशास्त्रासिद्ध्या तुक्।]]
13
=>
[[५। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
14
=>
[[६। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति दीर्घविकल्पः।]]
1 {@“इङ् अध्ययने”@} 2 नित्यमधिपूर्वः।
‘अयत्येतीयते गत्यां, अधीतेऽध्येति चेङिकोः।’ इति 3 देवः।
‘धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्तते।
विशिनष्टि तमेवार्थमुपसर्गगतिस्त्रिधा।।’ इति क्षीरतरङ्गिण्यामुद्धृतः श्लोकः।
अध्यायकः-यिका, 4 अध्यापकः-पिका, 5 अधिजिगमिषकः-षिका
अध्येता-त्री, अध्यापयिता-त्री, अधिजिगमिषिता-त्री
6 अधीयन् पारायणम्, 7 अध्यापयन्- 8 न्ती, अध्यापयिष्यन्-न्ती-ती
9 अधीयती, 10 अध्यापयन्- 11 न्ती, अध्यापयिष्यन्-न्ती-ती
12 अधीयानः, 13 -- अधिजिगांसमानः 14
अध्येष्यमाणः, -- 15 अधिजिगांसिष्यमाणः
16 अधीतः 17 -तम्, अध्यापितः, अधिजिगमिषितः-तवान्
अध्ययः, 18 मन्त्राध्यायः, अध्यापः, अधिजिगमिषुः, 19 अधिजिगापयिषुः
अध्यापिपयिषुः
अध्येतव्यम्, अद्यापयितव्यम्, अधिजिगमिषितव्यम्
अध्ययनीयम्, अध्यापनीयम्, अधिजिगमिषणीयम्
अध्येयम्, अध्याप्यम्, अधिजिगमिष्यम्
ईषदध्ययः, दुरध्ययः, स्वध्ययः
-- 20 अधीयमानः, अध्याप्यमानः, अधिजिगांस्यमानः
21 अध्यायः, 22 अध्यायः, 23 उपाध्यायः, उपाध्याया, 24 उपाध्यायी, 25 उपाध्यायानी, अध्यापः, अधिजिगमिषः
अध्येतुम्, अध्यापयितुम्, अधिजिगमिषितुम्
अधीतिः, अध्यापना, अधिजिगमिषा, अधिजिगापयिषा, अध्यापिपयिषा
अध्ययनम्, अध्यापनम्, अधिजिगमिषणम्
अधीत्य, अध्याप्य, अधिजिगमिष्य
अध्यायम् २, अध्यापम् २, अधिजिगमिषम्
प्रासङ्गिक्यः
01
=>
(६६)
02
=>
(२-अदादिः-१०४६। सक-अनिट्-आत्म।)
03
=>
(श्लो १४)
04
=>
[[१। ‘क्रीङ्जीनां णौ’ (६-१-४८) इति आत्वे ‘अर्तिही--’ (७-३-३६) इति पुक्।]]
05
=>
[[२। ‘इङश्च’ (२-४-४८) इति सनि गमिः। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इति इट्। ‘परस्मैपदेषु’ इत्यस्य ‘तङानयोरभावे’ इत्यर्थः।]]
06
=>
[[३। ‘इङ्धार्योः शत्रकृच्छ्रिणि’ (३-२-१३०) इति शता।]]
07
=>
[[आ। ‘वाचंयमान् स्थण्डिलशायिनश्च युयु- क्षमाणान् अनिशं मुमुक्षून्। अध्या- पयन्तं विनयात् प्रणेमुः पद्गाः भरद्वाजमुनिं सशिष्यम्।।’ भ। का। ३-४१।]]
08
=>
[[५। ‘बुधयुधनशजनेङ्--’ (१-३-८६) इति ण्यन्तात् परस्मैपदमेव।]]
09
=>
[[४। ‘उगितश्च’ (६-३-४५) इति स्त्रियां ङीप्। अधीयन् पारायणं अकृ- च्छ्रेणाधीयान इत्यर्थः।]]
10
=>
[[आ। ‘वाचंयमान् स्थण्डिलशायिनश्च युयु- क्षमाणान् अनिशं मुमुक्षून्। अध्या- पयन्तं विनयात् प्रणेमुः पद्गाः भरद्वाजमुनिं सशिष्यम्।।’ भ। का। ३-४१।]]
11
=>
[[५। ‘बुधयुधनशजनेङ्--’ (१-३-८६) इति ण्यन्तात् परस्मैपदमेव।]]
12
=>
[[६। इयड् पूर्वम्। पश्चात् दीर्घः।]]
13
=>
[[B। ‘ऋग्यजुषमधीयानान् सामन्यांश्च समर्चयन्। बुभुजे देवसात्कृत्वा शूल्यमुख्यं होमवान्।।’ भ। का। ४-९।]]
14
=>
[[७। ‘इङश्च’ (२-४-४८) इति गमादेशः। ‘अज्झनगमां सनि’ (६-४-१६) दीर्घः।]]
15
=>
[[८। ‘आर्धधातुकस्येट्--’ (७-२-३५) इतीट्।]]
16
=>
[पृष्ठम्००६७+ ४२]
17
=>
[[आ। ‘इत्यः स्वधीतोपनिषद्भिरेषामधी- त्यरूपः वियन् क्रमेण। इयञ्जनं राजपथं समायात् वाताकुलोद्भातव- ताकमीशः।।’ धा। का। २-४८।]]
18
=>
[[१। ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]
19
=>
[[२। ‘णौ संश्चङोः।’ (२-४-५१) इति गादेशः वा, पक्षे आत्वे पुकि अध्या- पिपयिषुः इति रूपम्।]]
20
=>
[[३। कर्मणि युक्।]]
21
=>
[[४। ‘अध्यायन्याय--’ (३-३-१२२) इति संज्ञायां अधिकरणे घञ्। घाप- वादः।]]
22
=>
[[५। ‘इङश्च’ (३-३-२१) इति भावादौ घञ् असंज्ञायाम्। अध्ययन- मध्यायः।]]
23
=>
[[B। ‘ततः कपिसमाहारं एकनिश्चायमा- गतम्। उपाध्याय इवायामं सुग्रीवोऽध्यापिपद् दिशाम्।।’ भ। का। ७-३४।]]
24
=>
[[६। ‘अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष्’ (वा। ३-३-२१) इति ङीष् वा।]]
25
=>
[[C। ‘मातुलोपाध्याययोरानुग् वा’ (वा। ४-१-४९।) इति स्त्रियामानुग् वा।]]