| YouTube Channel

अधिष्ठितः (adhiSThitaH)

 
E Bharati Sampat
Sanskrit
(वि) अधि+ष्ठा(गतिनिवृत्तौ)+क्तः(कर्मणि)। ‘निष्ठा’ ३.२.१०२। १.आश्रितः, आरूढः। ‘विलोक्य वृद्धोक्षमधिष्ठितं त्वया’ कुमा०४.७०। २.सन्निधिमात्रेण नियोजितः। ‘ईश्वराधिष्ठिताः सर्वे स्वं स्वं कार्यं हि कुर्वते’ पुरा०। ३.व्याप्तः, ग्रस्तः, अध्युषितः। ‘दनुकबन्धाधिष्ठितो दण्डकारण्यभागः’ उ०रा०१.३१.५। ४.स्वीकृतः, लब्धः। ‘अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वारूढमूलत्वात्’ मालवि०१.८। ५.परिरक्षितः। ‘आर्यारुन्धतीवसिष्ठाधिष्ठितेषु नः कुलेषु’ उ०रा०२.७.५। ६.आदिष्टः, निर्दिष्टः। ‘वसिष्ठाधिष्ठिता देव्यः’ उ०रा०१.३१।