अधिष्ठानम् (adhiSThAnam)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishअधिष्ठानम् [adhiṣṭhānam], [अधि-स्था-ल्युट्]
Standing or being near, being at hand, approach (सन्निधि)
अत्राधिष्ठानं कुरु take a seat here.
Resting upon, occupying, inhabiting, dwelling in, locating oneself in
प्राणाधिष्ठानं देहस्य
A position, site, basis, seat
त्र्यधिष्ठानस्य देहिनः 12.4
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते 3.4, 18.14 the seat (of that desire.)
Residence, abode
नगरं राजाधिष्ठानम् 1.
so धर्म˚
a place, locality, town
सर्वाविनयाधिष्ठानतां गच्छन्ति 16
कस्मिंश्चिदधिष्ठाने in a certain place.
Authority, power, power of control, presiding over
अनधिष्ठानम् 3.83. lose of position, dimissal from a post (of authority)
समर्थस्त्वमिमं जेतुमधिष्ठानपराक्रमैः Rām.
ययेह अश्वैर्युक्तो रथः सार- थिना$धिष्ठितः प्रवर्तते तथा आत्माधिष्ठानाच्छरीरम् Gaudapāda
महाश्वेताकृताच्च सत्याधिष्ठानात् 346 appeal or reference to truth.
Government, dominion.
A wheel (of a car ) अधिष्ठानं मनश्चासीत्परिरथ्या सरस्वती * 8.34.34
5.178.74.
A precedent, prescribed rule.
A benediction. अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि । Nm.
Destruction (?)
अमित्राणामधिष्ठानाद्वधाद् दुर्योधनस्य च । भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः ॥ * 9.61.14.
Couch, seat, bed
साधिष्ठानानि सर्वशः 6.75.19.
A butt (for an allurement.) तस्माद् ब्राह्ममधिष्ठानं कृत्वा कार्ये चतुर्विधे । Kau. 1.1. -अधिकरणम् Municipal Board. (अधिष्ठान city
अधिकरण court and office of administration) EI, XV, p.143
XVII. p. 193 f
XX, pp.61 ff. -शरीरम् A body which forms the medium between the subtle and the gross body.
Apte Hindi
Hindiअधिष्ठानम्
- अधि+स्था+ल्युट्
"निकट होना, पास में स्थित होना, पहुँच"
अधिष्ठानम्
- अधि+स्था+ल्युट्
"पद, स्थान, अधार, आसन, जगह, नगर"
अधिष्ठानम्
- अधि+स्था+ल्युट्
"निवास स्थान, आवास"
अधिष्ठानम्
- अधि+स्था+ल्युट्
"अधिकार, शक़्ति, नियंत्रणशक़्ति"
अधिष्ठानम्
- अधि+स्था+ल्युट्
"सरकार, उपनिवेश"
अधिष्ठानम्
- अधि+स्था+ल्युट्
"चक्र, पहिया"
अधिष्ठानम्
- अधि+स्था+ल्युट्
"दॄष्टांत, निर्दिष्ट, नियम, "
अधिष्ठानम्
- अधि+स्था+ल्युट्
आशीर्वाद
अधिष्ठानम्
- अधि+स्था+लुट्
"अव्स्था, आधार"
अधिष्ठानम्
- अधि+स्था+लुट्
नाश
E Bharati Sampat
Sanskrit(न) अधिष्ठीयते अत्र । अधि+ष्ठा(गतिनिवृत्तौ)+ल्युट्(अधि०) । ‘करणाधि०’ ३.३.११७। १.निवासस्थानम्, आवासः। २.आधारः, आश्रयः। ‘इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते’ गीता ३.४०। ३.पुरम्, नगरम् । ४.अधि+ष्ठा+ल्युट्(भावे) । ‘ल्युट् च’ ३.३.११५। समीपे स्थितिः। ५.अधि+ष्ठा+ल्युट्(करणे) । ‘करणा०’ ३.३.११७। अधिकारः, नियन्त्रणशक्तिः। ६.सामीप्यम् । ७.रथचक्रम् । ८.अधिपत्यम् । ९.आक्रमणम् । १०.प्रभावः। ११.आसनम्, अध्यासनम् । ‘अधिष्ठानं पुरे चक्रे प्रभावेऽध्यासनेऽपि च’ मेदिनी । १२.आरोपाधिकरणम् -वे०।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit अधिवासः, निवासः, वासः, वसनम्, अधिष्ठानम्
कस्मिन् अपि स्थाने आश्रयः।
"अधिवासाय अतीव उचितं स्थानम् एतत्।"
अधिष्ठानम्
कस्यचन देशस्य वा कस्याश्चन जात्याः भरणाय पोषणाय वर्धनाय रक्षणाय वा स्थापितः अधिकारः।
"राजा नन्दः अधिष्ठानस्य मदेन अनाचारम् आरब्धवान्।"
आधारः, अधिष्ठानम्, मूलम्, प्रतिष्ठिका
तद् अन्तर्निहितं मूलभूतं पूर्वानुमानं यद् कः अपि विषयः स्पष्टः भवितुम् आवश्यकं भवति।
"भवान् कस्मिन् आधारे मह्यम् इदं कथयति।"
अधिष्ठानम्
यात्राकालिनं निवासस्थानम्।
"सायङ्कालपर्यन्तं वयम् अधिष्ठानं यावत् प्राप्स्यामः।"
संस्थानम्, संस्था, अधिष्ठानम्
कलासाहित्यविज्ञानादीनां उन्नत्यार्थे स्थापितं समाजम्।
"भारतीय प्रौद्योगिकी संस्थानम् शिक्षार्थे विश्वविख्यातः अस्ति।"
अमरकोशः
SanskritWord: अधिष्ठानम्
Root: अधिष्ठानम्
Gender: undefined
Number: undefined
Meaning(s):
⇒ None
Shloka(s):
3|3|97|2 ► बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः॥ (नानार्थवर्गः)
Synonym(s):
➠ 3|3|97|2 ⇢ आधिः (आधि) (पुं)
Related word(s):
उपाधि ➡ उपकरणम्
कृदन्तरूपमाला
Sanskrit1 {@“ष्ठा गतिनिवृत्तौ”@} 2 3 स्थायकः-यिका, 4 स्थापकः-पिका, 5 तिष्ठासकः-सिका, 6 तेष्ठीयकः-यिका
7 स्थाता-त्री, 8 उत्थाता, 9 10 अधिष्ठाता-त्री, स्थापयिता-त्री, तिष्ठासिता-त्री, तेष्ठीयिता-त्री
11 तिष्ठन्- 12 अधितिष्ठन् 13-न्ती, 14 15 उत्तिष्ठत्, 16 17 उत्तिष्ठन्, 18 19 उपतिष्ठन्ती, 20 21 उपतिष्ठन्, स्थापयन्-न्ती, तिष्ठासन्-न्ती
-- स्थास्यन्- 22 अधिष्ठास्यन्-न्ती-ती, स्थापयिष्यन्-न्ती-ती, तिष्ठासिष्यन्-न्ती-ती
-- 23 सन्तिष्ठमानः-अवतिष्ठमानः-प्रतिष्ठमानः- 24 वितिष्ठमानः, 25 26 आतिष्ठ- मानः, 27 28 तिष्ठमाना, 29 30 तिष्ठमानः, 31 32 33 उत्तिष्ठमानः, 34 35 उपतिष्ठमानः, 36 37 उपतिष्ठमानः, 38 उपतिष्ठमाना, 39 उपतिष्ठमानः, 40 उपतिष्ठमानः, 41 42 उपतिष्ठमानः, 43 44 उपतिष्ठमानः, स्थापयमानः, 45 सन्तिष्ठासमानः-अवतिष्ठासमानः, 46, तेष्ठीयमानः
47 संस्थास्यमानः-अवस्थास्यमानः- 48 प्रस्थास्यमानः-विष्ठास्यमानः, स्थापयिष्यमाणः, सन्तिष्ठासिष्यमाणः, तेष्ठीयिष्यमाणः, 49
50 संस्थाः-संस्थौ-संस्थाः, 51 सव्येष्ठाः
-- -- 52 उपस्थितः- 53 स्थितम्-स्थितवान्, 54 समुत्थितवती, स्थापितः, तिष्ठासितः, तेष्ठीयितः-तवान्
-- -- -- 55 56 स्थायी, 57 दुःस्थः, 58 ककुत्स्थः, 59 तपस्स्थः 60 , प्रस्थः- 61 प्रष्ठः, 62 63 समस्थः- विषमस्थः, 64पद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः’ 65 इति षत्वम्।
एवं अग्निष्ठः इति पर्यन्तं षत्वमनेन सूत्रेण ज्ञेयम्।
अम्बेव तिष्ठतीत्यम्बष्ठः।
‘ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्’ 66 इति पूर्वपदस्य ह्रस्वः।
रूढशब्दश्चायम्
अतो नावयवार्थेऽभिनिवेशः कर्तव्यः।
अम्बायां = 67 तिष्ठतीति न्यासे व्युदपादि।]] अम्बष्ठः-आम्बष्ठः- 68 गोष्ठः- 69 भूमिष्ठः- 70 सव्येष्ठः- 71 अपष्ठः-द्विष्ठः-त्रिष्ठः- कुशोष्ठः-कुष्ठः-शङ्कुष्ठः-अङ्गुष्ठः-मञ्जिष्ठः-पुञ्जिष्ठः-परमेष्ठः-बर्हिःष्ठः- 72 दिविष्ठः- अग्निष्ठः, 73 आखूत्थः-शलभोत्थः, 74 अश्वत्थामा, 75 शंस्थः, शंस्थाः, 76 77 चिरस्थायी, 78 स्थास्नुः, 79 80 स्थायुकः, 81 82 स्थावरः, 83 84 तस्थिवान्, 85 86 प्रस्थायी, 87 88 उपस्थानीयः, स्थापः, 89 प्रतिष्ठासुः, तिष्ठापयिषुः, 90 तेष्ठियः
स्थातव्यम्, स्थापयितव्यम्, तिष्ठासितव्यम्, तेष्ठीयितव्यम्
91 स्थानीयम्, स्थापनीयम्, तिष्ठासनीयम्, तेष्ठीयनीयम्
92 स्थेयः, स्थेयम्, स्थाप्यम्, तिष्ठास्यम्, तेष्ठीय्यम्
93 94 ईषत्स्थानः-दुःस्थानः- 95 दुरुपस्थानः-सुस्थानः
-- -- 96 उपस्थीयमानः, स्थाप्यमानः, तिष्ठास्यमानः, तेष्ठीय्यमानः
97 प्रस्थः, माहिकप्रस्थः-इन्द्रप्रस्थः-मालाप्रस्थः, स्थापः, तिष्ठासः, तेष्ठीयः
स्थातुम्-उत्थातुम्, स्थापयितुम्, तिष्ठासितुम्, तेष्ठीयितुम्
98 प्रस्थितिः, 99] संस्था-आस्था- 100 अन्यदास्था-अन्यास्था, व्यवस्था, स्थापना, तिष्ठासा, तिष्ठापयिषा, तेष्ठीया
स्थानम्, उत्थानम्, अधिष्ठानम्, 101 भीरुष्ठानम्, स्थापनम्, तिष्ठासनम्, तेष्ठीयनम्
स्थित्वा, स्थापयित्वा, तिष्ठासित्वा, तेष्ठीयित्वा
102 प्रस्थाय-उत्थाय, प्रस्थाप्य, उपतिष्ठास्य, प्रतेष्ठीय्य
103 शय्योत्थायं 104 105, 106 107 स्थायम् २ स्थित्वा २ स्थापम् २ स्थापयित्वा २ तिष्ठासम् २ तिष्ठासित्वा २ तेष्ठीयम् २
तेष्ठीयित्वा २
108 स्थाणुः, 109 स्थूणा, 110 स्थविरः, 111 स्थिरम्- 112 गविष्ठिरः- 113 युधिष्ठिरः, 114 स्थाली, 115 स्थूरः, 116 परमेष्ठी।
01 (१८७६)
02 (१-भ्वादिः-९२८। अक। अनि। पर।)
03 [[७। ‘घात्वादेः षः सः’ (६-१-६४) इति सकारादेशः सर्वत्र। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं णिनिप्रत्यये, णमुल्यपि ज्ञेयम्।]]
04 [[८। ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ’ (७-३-३६) इत्यङ्गस्य पुगागमः। एवं ण्यन्ते सर्वत्र पुगागमो बोध्यः।]]
05 [[९। धातोरनुदात्तत्वात् सन इण्निषेधे, द्वित्वे, अभ्यासे, ‘शर्पूर्वाः खयः’ (७-४-६१) इति खयः शेषः। अभ्यासस्य, ‘सन्यतः’ (७-४-७९) इतीत्वम्। ‘आदेशप्रत्य- ययोः’ (८-३-५१) इत्युत्तरखण्डे षत्वम्। ष्टुत्वम्। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
06 [[१०। ‘घुमास्थागापाजहातिसां हलि’ (६-४-६६) इति ईत्वे, द्वित्वे, अभ्यासस्य गुणः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
07 [पृष्ठम्१३५७+ ३१]
08 [[१। ‘उदः स्थास्तम्भ्वोः पूर्वस्य’ (८-४-६१) इति सकारस्य पूर्वसवर्णः थकारो भवति। तस्य ‘झरो झरि सवर्णे’ (८-४-६५) इति पाक्षिको लोपः। लोपाभावपक्षे थकारस्यैव श्रवणम्, न तु ‘खरि च’ (८-४-५५) इति चर्त्वम्। पूर्वसवर्णस्यासिद्ध- त्वात्।]]
09 [वैकुण्ठस्य]
10 [[२। अधिपूर्वकस्य स्थाधातोः प्रयोगे, ‘अधिशीङ्स्थाऽऽसां कर्म’ (१-४-४६) इति कर्मसंज्ञायाम्, ‘कर्तृकर्मणोः कृति’ (२-३-६५) इति षष्ठी। ‘उपसर्गात् सुनोति- सुवतिस्यतिस्तौतिस्तोभतिस्था--’ (८-३-६५) इति षत्वम्।]]
100 [[६। अन्या च सा आस्था च अन्यदास्था। ‘अषष्ठ्यतृतीयास्थस्यान्यस्य दुग् आशीराशास्थास्थितोत्सुकोतिकारकारागच्छेषु’ (६-३-९९) इति दुगागमः।]]
101 [[७। समासे ‘भीरोः स्थानम्’ (८-३-८१) इति षत्वम्।]]
102 [[८। ‘न ल्यपि’ (६-४-६९) इति ईत्वनिषेधः। माधवीये तु ‘अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब् बाधते’ (परि। ५५) इति न्यायसञ्चारेण ईत्वं वारितम्। तत् सम्पा- तायातम्
\n\n यतः ‘न ल्यपि’ (६-४-६९) इति निषेधो जागर्ति।]]
103 [[९। ‘अपादाने परीप्सायाम्’ (३-४-५२) इति णमुल्। परीप्सा = त्वरा। ‘एवं नाम त्वरते, यदवश्यं कर्तव्यमपि नापेक्षते, शय्योत्थानमात्रमाद्रियते।’ इति काशिका (३-४-५२)।]]
104 [[B। ‘गोत्रे साक्षादजनि भगवानेष यत् पद्मयोनिः शय्योत्थायं यदखिलमहः प्रीणयन्ति द्विरेफान्।’ अनर्घराघवे ७-७८।]]
105 [धावति]
106 [पृष्ठम्१३६२+ २४]
107 [[आ। ‘स्थायं स्थायं क्वचिद् यान्तं क्रान्त्वा क्रान्त्वा स्थितं क्वचित्।’ भ। का। ५-५१।]]
108 [[१। ‘स्थो णुः’ (द। उ। १-१४७) इति णुप्रत्ययः। तिष्ठतीति स्थाणुः = ईश्वरः, अचलद्रव्यं च।]]
109 [[२। ‘रास्नासास्नास्थूणावीणाः’ (द। उ। ५-४७) इति सूत्रेण धातोरूकारादेशः, नप्रत्ययः, णत्वम्, गुणाभावश्च निपात्यते। स्थूणा = स्तम्भः।]]
11 [[३। ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसतां पिबजिघ्रधमतिष्ठ--’ (७-३-७८) इति तिष्ठादेशः शिति प्रत्यये परे।]]
110 [[३। ‘अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः’ (द। उ। ८-२७) इत्यनेन स्थाधातोः किरच्प्रत्ययः, ह्रस्वत्वम्, वुगागमश्च निपात्यते। स्थितो विश्रमात् = इति स्थविरः।]]
111 [[४। ‘अजिरशिशिरशिथिलस्थिर--’ (द। उ। ८-२७) इति किरचि, आकारलोपश्च निपात्यते। तिष्टतीति स्थिरम् = दृढम्।]]
112 [[५। ‘गवियुधिभ्यां स्थिरः’ (८-३-९५) इति षत्वम्।]]
113 [[B। ‘त्रिदण्डकाषायकमण्डलूज्ज्वलो जपस्फुरद्दन्तपुटो युधिष्ठिरः।’ चम्पूभारते ६-६।]]
114 [[६। ‘स्थाचतिमृजेरालवालजालीयरः’ (द। उ। १०-१) इति आलप्रत्ययः। तिष्ठत्योद- नादिकमिति स्थालम् = भाजनविशेषः। स्थाली, गौरादिषु (४-१-४१) पाठात् स्त्रियां ङीष्।]]
115 [[७। ‘स्थश्च’ (द। उ। ८-३५) इति रक्प्रत्यये, ऊकारश्चान्तादेशः। स्थूरः = उच्चः।]]
116 [[८। ‘परमे कित्’ (द। उ। ६-६१) इति स्थाधातोः इनिप्रत्ययः, स च कित्। कित्त्वादाकारलोपः। ‘तत्पुरुषे कृति बहुलम्’ (६-३-१४) इत्यलुक्। ‘स्था- स्थिन्स्थॄणामिति वक्तव्यम्’ (वा। ८-३-९७) इति षत्वम्।]]
12 [[४। ‘अधिशीङ्स्थाऽऽसां कर्म’ (१-४-४६) इति वैकुण्ठस्य कर्मसंज्ञायां द्वितीया।]]
13 [वैकुण्ठं]
14 [[५। ‘ईहायामेव’ (वा। १-३-२४) इति, ‘उदोऽनूर्ध्वकर्मणि’ (१-३-२४) इत्यत्रोक्तत्वात् न शानच्। किन्तु शत्रादेशः। शतस्य विशेष्यत्वात् उत्तिष्ठत् इत्यत्र क्लीबत्वम्।]]
15 [ग्रामात् शतं]
16 [आसनात्]
17 [[६। ‘--अनूर्ध्वकर्मणि’ (१-३-२४) इति निषेधात् अत्र न शानच्।]]
18 [[७। ‘उपान्मन्त्रकरणे’ (१-३-२५) इत्यत्र ‘मन्त्रकरणे’ इति विशेषणात् अत्र न शानच्।]]
19 [यौवनेन भर्तारं]
20 [याचकः प्रभुं]
21 [[८। ‘वा लिप्सायाम्’ (वा। १-३-२५) इति आत्मनेपदविकल्पात् पक्षे शता।]]
22 [[आ। ‘सङ्ग्रामे तानधिष्ठास्यन् निषद्य पुरतोरणम्।’ भ। का। ९-७२।]]
23 [[९। ‘समवप्रविभ्यः स्थः’ (१-३-२२) इति समादिपूर्वकेषु कमेण शानच्।]]
24 [[B। ‘सहस्रसंख्यैर्गगनं शिरोभिः पादैर्भुवं व्याप्य वितिष्ठमानम्। विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम्।।’ शिशुपालवधे ४-४।]]
25 [शब्दं नित्यं]
26 [[१०। ‘आङः प्रतिज्ञायाम्’ (वा। १-३-२२) इति वार्तिकात् शानच्।]]
27 [गोपी कृष्णाय]
28 [[११। ‘प्रकाशनस्थेयाख्ययोश्च’ (१-३-२३) इति प्रकाशने शानच्। स्थित्या स्वाभिप्रायं प्रकाशयन्ती इत्यर्थः। ‘श्लाधह्नुङ्स्थाशपां ज्ञीप्स्यमानः’ (१-४-३४) इति कृष्णशब्दात् चतुर्थी। ‘धातूनामनेकार्थत्वात् प्रकाशनमत्रार्थः’ इति केचित्। ‘स्थानेन स्वाभिप्रायाविष्करणं प्रकाशनम्’ इति पदमञ्जरी (१-४-३४)।]]
29 [धर्माध्यक्षे]
30 [[१२। ‘प्रकाशनस्थेयाख्ययोश्च’ (१-३-२३) इत्यनेन स्थेयाख्यायां शानच्। स्थेयः = विवादपदनिर्णेता। धर्माध्यक्षं निर्णेतृत्वेनोपसर्पतीत्यर्थः।]]
31 [मुक्तौ]
32 [पृष्ठम्१३५८+ २९]
33 [[१। ‘उदोऽनूर्ध्वकर्मणि’ (१-३-२४) इति शानच्।]]
34 [ऐन्द्र्या गार्हपत्यं]
35 [[२। ‘उपान्मन्त्रकरणे’ (१-३-२५) इति शानच्।]]
36 [आदित्यं]
37 [[३। ‘उपाद् देवपूजासङ्गतिकरणमित्रकरणपथिषु’ (वा। १-३-२५) इत्यनेन क्रमेण चतुर्ष्वर्थेषु गम्यमानेषु शानच् भवति। आदित्यमुपतिष्ठमानः = स्तुवन् इत्यर्थः। गङ्गा यमुनामुपतिष्ठमाना = उपश्लिष्यमाणा इत्यर्थः। रथिकान् उपतिष्ठमानः = मित्रीकरोति इत्यर्थः। पन्थाः स्रुघ्रमुपतिष्ठमानः = प्राप्नोतीत्यर्थः।]]
38 [गङ्गा यमुनां]
39 [रथिकान्]
40 [पन्थाः स्रुघ्नं]
41 [याचकः प्रभुं]
42 [[४। ‘वा लिप्सायाम्’ (वा। १-३-२५) इत्यात्मनेपदविकल्पः।]]
43 [यावद्भुक्तं]
44 [[५। ‘अकर्मकाच्च’ (१-३-२६) इति शानच्। भोजने भोजने उपतिष्ठत इत्यर्थः।]]
45 [[६। ‘पूर्ववत् सनः’ (१-३-६२) इत्यात्मनेपदम्। एवं आत्मनेपदनिमित्तविषये सर्वत्र सन्नन्ताच्छानच् बोध्यः।]]
46 [इत्यादीनि]
47 [[७। आत्मनेपदनिमित्तेषु सत्सु लृडादेशः। शानच् सर्वत्र बोध्यः।]]
48 [[आ। ‘प्रस्थास्यमानावुपसेदुषस्तौ शोशुच्यमानानिदमूचतुस्तान्’ भ। का। ३-१२।]]
49 [इत्यादीनि]
50 [[८। क्विपि, ‘घुमास्थागापा--’ (६-४-६६) इतीत्वं भाष्यकारप्रयोगात् न। नच प्रत्यय- लक्षणाभावः शङ्क्यः
\n\n तस्य निषेधस्य वर्णप्राधान्यविषयत्वात्। अत्र च प्रत्यय- प्राधान्यात्।]]
51 [[९। ‘स्थास्थिन्स्थॄणामिति वक्तव्यम्’ (वा। ८-३-९७) इति षत्वम्। अत्र वार्तिके ‘स्था’ इति औणादिकस्य ऋन्नन्तस्य ग्रहणमिति न्यासकारः। तच्च ‘स्थॄणाम्’ इत्यनेन पुनरुक्तत्वात्, हर्म्येष्ठाः, रथेष्ठाः, इति प्रयोगविरोधाच्च न--इति प्रदीपाद्यनुसारेण माधवीये साधितम्।]]
52 [[१०। ‘गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवस--’ (३-४-७२) इति कर्तरि क्तप्रत्ययः। ‘द्यतिस्यतिमास्थामित् ति किति’ (७-४-४०) इति इत्वम्।]]
53 [[B। ‘आशितम्भवमुत्क्रुष्टं वल्गितं शयितं स्थितम्। बह्वमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम्।।’ भ। का। ६। १०७।]]
54 [[C। ‘भूयः समुत्थितवती धृतपुण्डरीका भोगाय सागरगृहाद् भुवनैकयूनः।।’ यादवाभ्युदये १९-७०।]]
55 [पृष्ठम्१३५९+ ३३]
56 [[१। ग्रह्यादिपाठात् (३-१-१३४) कर्तरि णिनिः। युगागमः।]]
57 [[२। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः।]]
58 [[आ। ‘अबोधि दुःस्थं त्रैलोक्यं दीप्तैरापूरि भानुवत्।।’ भ। का। ६-३२।]]
59 [[३। ‘स्थे च भाषायाम्’ (६-३-२०) इति सप्तम्या अलुक्निषेधः। ‘हलदन्तात्--’ (६-३-९) इत्यस्यापवादः।]]
60 [[B। ‘असिस्तव तपःस्थस्य न समर्थयते शमम्।।’ किरातार्जुनीयम् ११-१७।]]
61 [[४। कर्तरि कप्रत्यये ‘प्रष्ठोऽग्रगामिनि’ (८-३-९२) इति षत्वं निपात्यते।]]
62 [[C। ‘प्रच्छन्नं मारुतिप्रष्ठः सीतां द्रष्टुं प्लवङ्गमाः।।’ भ। का। ७-५३।]]
63 [[५। ‘सुपि स्थः’ (३-२-४) इति कर्तरि कप्रत्ययः।]]
64 [[६। ‘अम्बाम्बगोभूमिसव्या[व्येऽप]
65 (८-३-९७)
66 (६-३-६३)
67 [मातृत्वप्रयुक्तजातौ]
68 [[७। गावः तिष्ठन्त्यत्रेत्यधिकरणे कप्रत्ययः।]]
69 [[ड्। ‘युवजानिर्धनुष्पाणिर्भूमिष्ठः खविचारिणः।’ भ। का। ५-१३।]]
70 [[८। सूत्रे (८-३-९७) कुशे, सव्ये, परमे, दिवि इति चतुर्षु स्थलेषु निपातनात् सप्तम्या अलुक्।]]
71 [[९। “अपाष्ठः इति क्वचिद् दृश्यते। तदानीं ‘अन्येषामपि--’ (६-३-१३७) इति पूर्वपदस्य दीर्घः--इति न्यासे” इति माधवधातुवृत्तौ।]]
72 [[E। ‘सर्वनारीगुणैः प्रष्ठां विष्टरस्थां गविष्ठिराम्। शयानां कुष्ठले तारां दिविष्ठामिव निर्मलाम्।।’ भ। का। ९-८४।]]
73 [[१०। आदन्तत्वादेव कप्रत्यये सिद्धे पुनः, ‘सुपि स्थः’ (३-२-४) इति सूत्रारम्भसामर्थ्यात् भावेऽपि कप्रत्ययो भवति। आखूनामुत्थानम् = आखूत्थः। पृषोदरादित्वात् सकारस्य थकारः।]]
74 [[११। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति मनिन्प्रत्ययः। पृषोदरादित्वात् आदेः सकारस्य थकारादेशः। अश्वस्येव स्थाम = बलं यस्थ, सोऽश्वत्थामा। उपपदसमासे स्वभावात् इवार्थो लभ्यते।]]
75 [[१२। ‘स्थः क च’ (३-२-७७) कर्तरि कः। चकारात् क्विबपि। ‘शमि धातोः संज्ञायाम्’ (३-२-१४) इत्यचोऽपवादः।]]
76 [पृष्ठम्१३६०+ २८]
77 [[१। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति णिनिः। युगागमः।]]
78 [[२। ‘ग्लाजिस्थश्च ग्स्नुः’ (३-२-१३४) इति ग्स्नुप्रत्ययः ताच्छीलिकः। ‘क्स्नोः गित्त्वान्न स्थ ईकारः किङितोरीत्वशासनात्। गुणाभावस्त्रिषु स्मार्यः, श्र्युकोऽनिट्त्वं गकोरितोः।।’ इति भाष्यम् (३-३-१३९)।]]
79 [[आ। ‘स्थास्नुं रणे स्मेरमुखो जगाद मारीचमुच्चैर्वचनं महार्थम्।।’ भ। का। २-३२।]]
80 [[३। ‘लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्’ (३-२-१५४) इति तच्छीलादिषु कर्तृषु उकञ् प्रत्ययः। युगागमः।]]
81 [[B। ‘अतीते वर्षुके काले प्रमत्तः स्थायुको गृहे।।’ भ। का। ७-१८।]]
82 [[४। ‘स्थेशभासपिसकसो वरच्’ (३-२-१७५) इति ताच्छीलिको वरच्प्रत्ययः।]]
83 [[C। ‘शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव।।’ कुमारसम्भवे १-२३।]]
84 [[५। ‘छान्दसा अपि क्वचिद्भाषायाम्’ इति न्यायेन लिटः क्वसुः। द्वित्वे, आकार- लोपे, ‘नेड् वशि कृति’ (७-२-८) इतीण्निषेधे प्राप्ते, ‘वस्वेकाजाद्धसाम्’ (७-२-६७) इतीट्।]]
85 [[ड्। ‘तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः।’ (रघुवंशे ५-६१।]]
86 [[६। ‘भविष्यति गम्यादयः’ (३-३-३) इति भविष्यदर्थे णिनिः। युगागमः। ‘गमी गामी तथाऽऽगामी प्रयायिप्रतियायिनौ। प्रबोधी प्रतिबोधी च भावी प्रस्थाय्यमी नव।।’ इति प्रक्रियासर्वस्वम्।]]
87 [चैत्रो गुरोः]
88 [[७। ‘भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा’ (३-४-६८) इत्यनीयरन्तो विकल्पेन निपातितः। पक्षे भावकर्मणोरनीयर्। उपस्थानीयः = उपस्थानकर्ता, उपस्थानकर्मभूतश्च।]]
89 [[E। ‘अभिचैद्यं प्रतिष्ठासुरासीत् कार्यद्वयाकुलः।।’ शिशुपालवधे २-१।]]
90 [[८। ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि, संयोगपूर्वकत्वात् ‘अचि श्नुधातु--’ (६-४-७७) इतीयङादेशः।]]
91 [[९। तिष्ठन्त्यस्मिन् इत्यधिकरणे ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति बाहुलकात् अनीयर्। स्थानीयम् = नगरम्।]]
92 [[१०। ‘ईद्यति’ (७-४-६५) इतीत्वे गुणः। स्थेयः = विवादपदनिर्णेता। ‘प्रकाशन- स्थेयाख्ययोश्च’ (१-३-२३) इति सूत्रे निपातनात् बाहुलकात् अधिकरणे यत्।]]
93 [पृष्ठम्१३६१+ २७]
94 [[१। ‘आतो युच्’ (३-३-१२८) इति युच्। अङपवादः।]]
95 [[आ। ‘के यूयं दुरुपस्थाने मनसाऽप्यद्रिमूर्धनि।।’ भ। का। ७-८५।]]
96 [[२। यकि ‘घुमास्था--’ (६-४-६६) इति ईत्वम्।]]
97 [[३। ‘घञर्थे कविधानम्--स्थास्नापाहनिव्यधियुग्यर्थम्’ (वा। ३-३-५८) इति कः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः। प्रतिष्ठतेऽस्मिन् इति प्रस्थः = सानुः। माहिकप्रस्थः-इन्द्रप्रस्थः-मालाप्रस्थः--एते देशविशेषाः।]]
98 [[४। ‘स्थागापाचो भावे’ (३-३-९५) इति अङपवादः क्तिन्। ‘द्यतिस्यतिमास्था- मित् ति किति’ (७-४-४०) इति इत्वम्।]]
99 [[५। बाहुलकात्, ‘--व्यवस्थायामसंज्ञायाम्’ (१-१-६४) इति निर्देशात् वा अङपि ‘एवं यत्रापवादेषु सङ्करो दृश्यते क्तिनः। तत् सर्वं बहुलोक्त्यैव साधितं माधवादिभिः।।’ इति प्रक्रियासर्वस्वे। [साधुः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
