| YouTube Channel

अधिवासः (adhivAsaH)

 
Apte
English
अधिवासः [adhivāsḥ], 1 Abode, residence
dwelling
सतत˚सुभगा- पिंतस्तनम्
Māl.
5.8
तस्यापि एव गिरिरधिवासः
K.*
137
लक्ष्मीभृतो$म्भोधितटाधिवासान्
Śi.*
3.71 situated on
settlement, habitation. वसन्ति मन्नियोगेन अधिवासं राक्षसाः
Rām.*
3.36.4.
An inhabitant, neighbour.
Obstinate pertinacity in making a demand, sitting without food before a person's house till he ceases to oppose or refuse it (Mar. धरणें).
[अधिवासयति देवता अनेन, करणे घञ्] Consecration of an image especially before the commencement of a sacrificial rite
see अधिवासनम् also. शुद्धाधिवासाश्च विशुद्धसत्त्वाः Bu. Ch.1.39.
A garment, mantle (अधीवासः also).
A birth-place
जातिश्रेण्यधि- वासानां कुलधर्माश्च सर्वतः वर्जयन्ति ये धर्मं तेषां धर्मो विद्यते
Mb.
* 12.36.19.
अधिवासः [adhivāsḥ], Application of perfumes or fragrant cosmetics
scenting, perfuming
fragrance, scent, fragrant odour itself
अधिवासस्पृहयेव मारुतः
R.*
8.34
Śi.*
2.2, 5.42
K.*
183.
Apte 1890
English
अधिवासः 1 Abode, residence
dwelling
सतत°सुभगार्पितस्तनं Māl. 5. 8
तस्यापि एव गिरिरधिवासः K. 137
लक्ष्मी भृतोंभोधितटाधिवासान् Śi. 3. 71 situated on
settlement, habitation.
2 An inhabitant, neighbour.
3 Obstinate pertinacity in making a demand, sitting without food before a person's house till he ceases to oppose or refuse it (Mar. धरणा).
4 [अधिवासयति देवता अनेन, करणे घञ्] Consecration of an image especially before the commencement of a sacrificial rite
see अधिवासनं also.
5 A garment, mantle (अधीवासः also).
अधिवासः Application of perfumes or fragrant cosmetics
scenting, perfuming
fragrance, scent, fragrant odour itself
अधिवासस्पृहयेव मारुतः R. 8. 34
Śi. 2. 20, 5. 42
K. 183.
Apte Hindi
Hindi
अधिवासः
पुं*
- अधि+वस्+णिच्+घञ्
"आवास, निवास, वास, बसति, बसना "
अधिवासः
पुं*
- अधि+वस्+णिच्+घञ्
धरना देना
अधिवासः
पुं*
- अधि+वस्+णिच्+घञ् यज्ञारंभ के पूर्व देवता का आवाहन पूजन आदि
" "", २. ३. ४. ५. - """
अधिवासः
पुं*
- अधि+वस्+णिच्+घञ्
"पोशाक, परावरण, लबादा"
अधिवासः
पुं*
- अधि+वस्+णिच्+घञ्
"सुवासित और सुगंधित उबटन लगाना, सुगंध्युक़्त तथा महकदार पदार्थों का सेवन"
अधिवासः
पुं*
- अधि+रुप्+घञ्
"जन्मभूमि, जन्मस्थान"
E Bharati Sampat
Sanskrit
(पुं) अधि+वस(निवासे)+घञ् ‘भावे’ ३.३.१८। १.निवासः, आवासः। ‘सतताधिवाससुभगार्पितस्तनम्’ मालती ५.८। २.सौरभम्, परिमलम् ‘ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया’ माघः२.२०। ३.अधिवासयति देवताः अनेन अधि+वस(निवासे)+णिच्+घञ्(करणे) ‘कृत्यल्युटो बहुलम्’ ३.३.११३। २.यज्ञारम्भपूर्वदिवसे देवतास्थापनादिकर्म ‘अधिवासः परेऽहनि’ स्मृतिः। अधि+वास(सुरभीकरणे)+घञ् (भावे) ‘भावे’ ३.३.१८। ३.गन्धमाल्यधूपनादिभिः संस्कारः। ‘अधिवासः स्यान्निवासे संस्कारे धूपनादिभिः’ हैमः। ‘अधिवासस्पृहयेव मारुतः’ रघुः८.३४।
Wordnet
Sanskrit
Synonyms:
अधिवासः, निवासः, वासः, वसनम्, अधिष्ठानम्
noun
कस्मिन् अपि स्थाने आश्रयः।
"अधिवासाय अतीव उचितं स्थानम् एतत्।"
Synonyms:
गृहम्, गेहम्, उद्वसितम्, वेश्म, सद्म, निकेतनम्, निशान्तम्, नत्स्यम्, सदनम्, भवनम्, अगारम्, सन्दिरम्, गृहः, निकायः, निलयः, आलयः, वासः, कुटः, शाला, सभा, पस्त्यम्, सादनम्, आगारम्, कुटिः, कुटी, गेबः, निकेतः, साला, मन्दिरा, ओकः, निवासः, संवासः, आवासः, अधिवासः, निवसति, वसति, केतनम्, गयः, कृदरः, गर्तः, हर्म्यम्, अस्तम्, दुरोणे, नीलम्, दुर्याः, स्वसराणि, अमा, दमे, कृत्तिः, योनिः, शरणम्, वरूथम्, छर्दिछदि, छाया, शर्म, अजम्
noun
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
"गृहिण्या एव गृहं शोभते।"
Synonyms:
निवासः, वसतिः, वासः, वासस्थानम्, निवसतिः, निवासस्थानम्, निवासभूयम्, गृहम्, आवासः, अधिवासः, समावासः, आवसथः, वास्तुः, वास्तु, स्थानम्, अवस्थानम्, प्रतिष्ठा, आयतनम्, निकेतनम्, आलयः, निलयः, निलयिता, क्षिः
noun
तत् स्थानं यत्र पशवः जनाः वा वसन्ति।
"व्याघ्रस्य निवासः वने अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
अधिवासः,
पुं,
(अधि + वस् + घञ् ।) निवासः ।धूपनादिभिः संस्कारः इति मेदिनी
तद्-द्रव्याणि मृत्तिका गन्धः शिला धान्यं ४दूर्व्वा पुष्पं फलं दधि घृतं स्वस्तिकं१० सिन्दूरं ११ शङ्खः १२ कज्जलं १३ रोचना १४श्वेतसर्षपः १५ स्वर्णं १६ रौप्यं १७ ताम्रं १८चामरं १९ दर्पणं २० दीपः २१ प्रशस्तपात्रं २२ ।इति भवदेवः
क्वचित् पुस्तके श्वेतसर्षपस्थानेसिद्धान्नं क्वचिच्च चामरस्थाने तत्रानुष्ठानं ।ँदुर्गापूजादोलयात्रायागादौ पूर्व्वदिने सायंकालेआचारात् संस्कारकर्म्मणि तद्दिने पूर्व्वाह्ने मन्त्रंपठित्वा क्रमेणोक्तद्रव्याणि आदौ देवादीनां ललाटेपश्चाद्भूमौ स्पर्शयित्वा प्रशस्तपात्रे स्थापयित्वातत्पात्रं पूब्बाक्तक्रमेण वारत्रयं स्पर्शयेत् द्रव्य-विशेषेण संस्कारः तत्र यजुर्व्वेदोक्तमन्त्रा-स्त्रयोविंशतिद्रव्याणि यथा तैलहरिद्रांगृहीत्वा, --“ओँ कोसि कतमोसि कस्मै त्वा काय त्वा सुश्लोकःसुमङ्गलः सत्यराजन् अनया तैलहरिद्रयाअस्य शुभाधिवासनमस्तु एवं सर्व्वत्र” ।गन्धं गृहीत्वा, --“ओँ गन्धद्वारां दुराधषां नित्यपुष्णां करीषिणीं ।ईश्वरीं सर्व्वभूतानां त्वामिहोपाह्वये श्रियं” ।महीं गृहीत्वा, --“ओँ भूरसि भूमिरस्य दितिरसि विश्वधायाविश्वस्य भुवनस्य धात्रीं पृथिवीं यच्छ पृथिवींदृॱᳪ᳭ह पृथिवीं माहिॱᳪ᳭सीः” ।पुनर्गन्धेन गन्धद्वारामिति ।शिलां गृहीत्वा, --“ओँ प्रपर्ब्बतस्य वृषभस्य पृष्ठान्नावश्चरन्ति स्वसिच इत्यानाः ता आवृत्र नधरा गुदक्ता अहिंबुध्न्यमनुरीयमानाः विष्णोर्विक्रमणमसि विष्णो-र्विक्रान्तमसि विष्णोः क्रान्तमसि” ।धान्यं गृहीत्वा, --“ओँ धान्यमसि धिनुहि देवान् धिनुहि यज्ञंधिनुहि यज्ञपतिं धिनुहि भां यज्ञन्यं” ।दूर्व्वां गृहीत्वा, --“ओँ काण्डात् काण्डात् प्ररोहन्ती परुषः परुषःपरिएवानो दूर्ब्बे प्रतनु सहस्रेण शतेन च” ।पुष्पं गृहीत्वा, --“ओँ श्रीश्च ते लक्ष्मीश्च पत्न्या अहोरात्रे पार्श्वेनक्षत्राणि रूपमश्विनौ व्याप्तं इष्णुन्निशान मुम्म-इशान सर्व्वलोकम्मैशान” ।फलं गृहीत्वा, --“ओँ याः फलिनीर्या अफला अपुष्पा याश्चपुष्पिणीः वृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वॱᳪ᳭-हसः” ।दधि गृहीत्वा, --“ओँ दधिक्राव्नोऽकार्षं जिष्णोरश्वस्य वाजिनः ।सुरभिणो मुखाकरोत् प्रणतायुंषितार्षत्” ।घृतं गृहीत्वा, --“ओँ तेजोसि शुक्रमस्यमृतमसि धामनामासिप्रियं देवानामनाधृष्टं देवयजनमसि” १० ।स्वस्तिकं गृहीत्वा, --“ओँ स्वस्तिन इन्द्रो वृद्धश्रवाः स्वस्तिनः पूषाविश्ववेदाः स्वस्तिन स्तार्क्ष्यो रिष्टनेमिः स्वस्ति-नो वृहस्पतिर्दधातु” ११ ।सिन्दूरं गृहीत्वा, --“ओँ सिन्धोरिव प्राध्वने शूघनासो वातप्रमीयपतयन्तु घृतस्य धारा अरुषोण वाजी काष्ठा-भिन्दन्नुतिमिभिः पिन्नमानः” अत्र “वातप्रमीयपतयन्ति जह्वा” इत्यपि पठन्ति १२ ।शङ्खं गृहीत्वा, --“ओँ प्रतिश्रुत्काया अर्त्तनं घोषाय भयमन्तायबहुवादिनमनन्ताय मूकं शब्दायाडम्बराघातंमहसे वीणावादं क्रोशाय तूणबद्धमवरस्परायशङ्खध्वं वनाय वनपमन्यतोऽरण्याय दावपं” १३ ।कज्जलं गृहीत्वा, --“ओँ समिद्धोऽञ्जन क्रदरं मतीनां घृतमग्ने मधु-मत् पिन्नमानः वाजीवहन् वाजिनं जातवेदोदेवानां वक्षिप्रियमासधस्थं” १४ ।रोचनां गृहीत्वा, --“ओँ युञ्जन्ति ब्रध्नमरुषं चरन्तं परितस्थुषः रोचन्तेरोचना दिवि” १५ ।सिद्धान्नं गृहीत्वा, --“ओँ अन्नपते अन्नस्य नो धेह्यनमीवस्य शुष्मिणः ।प्रदातारं तार्य्यऊर्जं नो धेहि द्विपदे शं चतु-ष्पदे सिद्धान्नमत्र आतपतण्डुलाः” १६ ।काञ्चनं गृहीत्वा, --“ओँ हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातःपतिरेक आसीत् सदाधारः पृथिवीं द्यामु-तैषां कस्मै देवाय हविषा विधेम १७ ।”रजतं गृहीत्वा, --“ओँ तेजोसि शुक्रमस्यमृतमसि धामनामासिप्रियं देवानामनाधृष्टं देवयजनं” १८ ।ताम्रं गृहीत्वा, --“ओँ असौ यस्ताम्रोरुण उतवभ्रुः सुमङ्गलः येचैनंॱᳪ᳭ रुद्रा अभितो दिक्षु श्रिताः सहस्रशोवैषाॱᳪ᳭ हेलैमहे” १९ ।सिद्धार्थं गृहीत्वा, --“ओँ रक्षोहनो बलगहनः प्रोक्षामि वैष्णवान्रक्षोहनो बलगहनो बलयामि वैष्णवान् रक्षो-हनो बलगहनोऽवस्तृणामि वैष्णवान् रक्षोहनौवनगहना उपधामि वैष्णवी रक्षोहनौ वनगहनौपर्य्यहामि वैष्णवी वैष्णवमसि वैष्णवास्थ” २० ।दर्पणं गृहीत्वा, --“ओँ आकृष्णेन रजसा वर्त्तमानो निवेशयन्नमृतंमर्त्त्यञ्च हिरण्ययेन सविता रथेना देवोयातिभुवनानि पश्यन्” २१ ।दीपं गृहीत्वा, --“ओँ अग्न आयाहि वीतये गृणानो हव्यदातयेनिहोता सत्सु वर्हिषि” २२ ।सर्व्वद्रव्ययुक्तडल्लकं गृहीत्वा, --“ओँ प्रतिपदसि प्रतिपदे त्वा अनुपदसि अनुपदेत्वा सम्पदसि सम्पदे त्वा तेजोसि तेजसे त्या २३ ।इति यजुर्व्वेदीयदुर्गोत्सवपद्धतिः
*
सामवेदि-नामधिवासमन्त्रास्तत्तद्द्रव्याणि यथा प्रथमंगन्धेन, --“ओँ भद्रा इन्द्रस्य रातयः योऽस्य कामं विधतोनरोषति मनोदानाय चोदयन्” ।“ओँ महित्रीणामवरस्तु द्युक्षमित्रस्यार्यम्नः दुरा-धर्षं वरुणस्य” ।इति मह्या ।पुनर्गन्धेन, --“ओँ भद्रा इन्द्रस्य रातयः इत्यादि” ।“ओँ वित्वदापो पर्ब्बतस्य पृष्ठादुक्थेभिरग्रेजनयन्त देवाः तत्वागिरः
सुष्टुतयो वाजयत्याजिन्नगिर्व्वर्वहो जिग्युरस्वाः” ।इति शिलया ।“ओँ धानावन्तं करम्भिण मपूप्यवन्तमुक्थिनंइन्द्रप्रातर्जुषस्वनः” ।इति धान्येन ।“ओँ जज्जायथा मपूर्व्व्य मघवन् वृत्रहत्याय ।तत्पृथिवी मप्रथयस्तदस्तभ्ना उतो दिवम्” ।इति दूर्व्वया ।“ओँ पवमान व्यश्नुहि रश्मिभिर्व्वाजसातमः ।दधत्स्तोत्रे सुवीर्य्यम्” ।इति पुष्पेण ।“ओँ इन्द्रन्नरोने मधिता हवन्ते यत्पार्य्या युञ्जतेधियस्ताः शूरो नृषाता श्रवसश्च कामत्वा गोमतिव्रजे भजात्वन्नः” ।इति फलेन ।“ओँ दधिक्राव्नोऽकारिषं जिष्णोरश्वस्य वाजिनःसुरभिणो मुखाकरोत् प्रणतायुंषि तारिर्षत्” ।इति दध्ना ।“ओँ घृतवती भुवनानामधिश्रियोव्वी पृथ्वी म-धुदुघे सुपेशसा द्यावा पृथिवी वरुणस्य धर्म्मणाविष्कभितेऽजरे भूरिरेतसा” १० ।इति घृतेन ।“ओँ अस्ति सोमोऽयं सुतः पिबन्त्यस्य मरुतःउतस्वराजोऽश्विना” ११ ।इति स्वस्तिकेन ।“ओँ सिन्धीरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावापशुमप्सु गृभ्नते” १२ ।इति सिन्दूरेण ।“ओँ स्वसुन्वयो वसूनां यो राया मानेता इ-डानां सोमो यः सुक्षितीनां” १३ ।इति शङ्खेन ।“ओँ अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मध्वा-भ्यञ्जते” १४ ।इति कज्जलेन ।“ओँ श्रायन्त इव सूर्य्यं विश्वेदिन्द्रस्य भक्षत वसूनिजातो जनिमान्योजसा प्रतिभागन्नदीधिमः” १५ ।इति रोचनया ।“ओँ प्रणीउषा अपूर्व्वा व्युत्सति प्रिया दिवस्तुषेवा मश्विना वृहत्” १६ ।इति सिद्धार्थेन ।“ओँ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यं सनिंमेधा मयासिषं” १७ ।इति काञ्चनेन ।“ओँ यद्वर्च्चोहिरण्यस्य यद्वा वर्च्चो गवामुत सत्यस्यब्रह्मणो वर्च्चस्तेन मा संसृजामसि” १८ ।इति रौप्येण ।“ओँ रन्महांसि सूर्य्य वडादित्य महां असिमहस्ते सतो महिमापनिष्ट समह्ना देवमहांअसिः” १९
इति ताम्रेण ।“ओँ मनज्योतिर्जुषतामाज्यस्य वृहस्पतिर्यज्ञमिमंतनोत्वरिष्टं यज्ञं समिमं दधातु विश्वे देवाः सइह मादयन्ता मां प्रतिष्ठ” २० ।इति दीपेन ।“ओँ आदित्य प्रयतस्य वेत्तसो ज्योतिः पश्यन्तिवासरं पावाय दिव्यं तोदिवि” २१ ।इति दर्पणेन ।“ओँ उद्यल्लोकानरोचय प्रभभूतमरोचय होइइमान् लोकानरोचय होइ विश्वभूतमरोचय ।होहा ऐवात्र धर्म्मो ज्योतीषि” २२ ।इति प्रशस्तपात्रेण प्रशस्तपात्रं पूर्व्वोक्तसर्व्वद्रव्य-स्थापितैकपात्रं इति सामवेदीयदुर्गोत्सव-पद्धतिः