| YouTube Channel

अधिराट् (adhirAT)

 
E Bharati Sampat
Sanskrit
(पुं) (अधिराज्) आधिक्येन राजते अधि+राजृ(दीप्तौ)+ क्विप्(कर्तरि) ‘सत्सूद्विष०’ ३.२.६१। १.सम्राट्, चक्रवर्ती ‘प्रायोपविष्टो गङ्गायामनादृत्याधिराट् श्रियम्’ भाग०। (वि) २.अधिकशोभान्वितः।
शब्दकल्पद्रुमः
Sanskrit
अधिराट्, [ज्]
पुं,
(आधिक्येन राजते अधि +राज् + कर्त्तरि क्विप् ।) सम्राट् चक्रवर्त्तो इतिमहाभारतं
(यथा रघुवंशे इति प्रगल्मंपुरुषाधिराजो मृगाधिराजस्य वचो निशम्य ।)