अधिमास (adhimAsa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishअधिमासः [adhimāsḥ], [अधिको रविमासात् अतिरिक्तः शुक्लप्रतिपदादिद- र्शान्तश्चान्द्रो मासः] An intercalary (lunar) month.
Apte 1890
EnglishGoldstucker
EnglishApte Hindi
Hindiअधिमासः
- -
"लौंद का महीना, मलमास"
Shabdartha Kaustubha
Kannadaअधिमास
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಧಿಕಮಾಸ / ಮಲಮಾಸ
व्युत्पत्तिः - > अधिकः अतिरिक्तः मासः ।
विस्तारः - > [ವಿವರಕ್ಕೆ “अधिकमास” ಪದದಲ್ಲಿ ನೋಡಿ.]
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritअधिमास अधिको रविमासादतिरिक्तः शुक्लप्रतिपदादि-दर्शान्तश्चान्द्रो मासः प्रा० स० । मलमासे “असंक्रान्त-मासोऽधिमासो निरुक्त” इतिस्मृत्युक्तो रविसंक्रान्तिवर्जितोमासोऽधिमासः । तथा हि “मीनादिस्थो रविर्य्येषामारम्भःप्रथमे क्षणे । ते चैत्राद्या” इत्युक्तदिशा मीनस्थे रवौ यस्यचान्द्रमासस्यारम्भः स चैत्रः एवं मेषस्थरवावारब्धो वैशाखइत्येवं स्थिते यस्मिन् चान्द्रमासे रवेः राश्यन्तरसंक्रमो नजातः, तस्य तदुत्तरस्य च चान्द्रमासस्य उभयोर्मेषस्थे रवौस्वारम्भात् उभयोरपि वैशाखता, तत्राद्योऽधिमासः संक्रा-न्तिहीनत्वात् द्वितीयः शुद्धः इति स्मृतौ प्रसिद्धम् । यथामलमासतत्त्वे लघुहारीतः ॥
“इन्द्राग्नी यत्र हूयते” इत्युक्त्वा“तमतिक्रम्य तु रविर्यदा गच्छेत् कथञ्चन । आद्योमलिम्लु-चोज्ञेयोद्वितीयः प्रकृतः स्मृतः । तस्मिंस्तु प्रकृते मासि-कुर्य्यात् श्राद्धं यथाविधि । तथैवाभ्युदयं कार्य्यं नित्यमेकं तुसर्वदा” । “यदा तं दर्शान्तमासमतिक्रम्य तत्पूर्व्वमासा-न्त्यक्षणवृत्तिराशिस्थः सन् सूर्य्योऽतिवाह्य गच्छेत् मासा-न्तरे राश्यन्तरसंयोगं गच्छेत्तदाद्योऽतिक्रान्तोमासोमलिम्लु-चोज्ञेयः” । ज्योतिषे । “अमावास्याद्वयं यत्र रविसंक्रान्तिवर्जि-तम् मलमासः स विज्ञेयोविष्णुः स्वपिति कर्कटे” । “अमा-वास्याद्वयम् अमावास्यान्त्यं क्षणद्वयं रविसंक्रान्तिभ्यां क्रियोत्-पत्तिरूपोत्तरसंयोगरूपाभ्यां यथाक्रमं वर्जितं तेन दर्शान्त्य-क्षणद्वययोरेव क्रियोत्पत्त्युत्तरसंयोगाभ्यां यथाक्रमं संयोगे-नाधिमासः । संक्रान्तेरेकक्षणे क्रियोत्पत्तिरपरक्षणेपूर्व्वसंयोगनाशः उत्तरसंयोगोत्पत्तिश्चेति क्षणद्वयवृत्ति-त्वमिति मीमांसकसिद्धान्तात्” । गृह्यपरिशिष्टज्योतिः-पराशरौ । “रविणा लङ्घितोमासश्चान्द्रः ख्यातोमलि-म्लुचः । तत्र यद्विहितं कर्म्म उत्तरे मासि कारयेत्”पराशरः । “पक्षद्वयेऽपि संक्रान्तिर्यदि न स्यात् सिता-सिते । तदा तन्मासविहितमुत्तरे मासि कारयेत्” ।अत्र लङ्घनमसंक्रमणञ्च रवेस्तदा भवति यदा तन्मासतत्पूर्व्वमासान्त्यक्षणयोरेकराश्यवस्थितस्य तन्मासानन्तर-संयोगः, न त्वेकराशिस्थितस्य मासव्यापनमात्रं तथात्वेचतुर्द्दश्यामेकराशौ संक्रान्तस्य प्रतिपत्प्रथमक्षणेऽपरराशौ, तत्परराशौ च द्वितीयायां प्रतिपदि वा रवेः संयोगे-ऽपरस्यापि मलमासता स्यात्” । अतएव ज्योतिषे “अमा-वास्यापरिच्छिन्नं रविसंक्रान्तिवर्ज्जितम् । मलमासंविजानीयाद्गर्हितं सर्वकर्म्मसु । तस्यार्कोदर्शकश्चैकराशौदर्शद्वयातिगः” । “अत्रैकराशिस्थार्कस्य दर्शद्वयातिगत्व-मुक्तम् । एतच्च पूर्व्वोपदशितयोर्मासयोः पूर्व्वस्यैव सम्भ-वति न परस्य” । मलमासकारणन्तु ज्योतिषे । “दिव-सस्य हरत्यर्कः षष्टिभागमृतौ सदा । करोत्येकमह-श्छेदं तथैवैकञ्च चन्द्रमाः । एवमर्द्धतृतीयानामब्दानाम-धिमासकम् । ग्रीष्मे जनयतः पूर्व्वं पञ्चाब्दान्ते तु पश्चि-मम्” । “तेन दिवसस्य तिथेः षष्टिभागं दण्डमेकंरविर्हरति छेदयति उत्तरे छेदमित्यभिधानात् । ततश्चऋतौ मासद्वये षष्टिनाडीच्छेदादह्नस्तिथेश्छेदमाकर्षणंकरोति । एवं चन्द्रोऽपि । एवमित्युक्तक्रमेण वर्षे द्वादशतिथ्यात्मककालाकर्षादर्द्धतृतीयानामन्ते अर्द्धं तृतीयं येषांते तथा । ग्रीष्मे माधवादिषु षट्केषु पूर्व्वं माधवादित्रिक-पतितं, पञ्चाब्दान्ते तु पश्चिमं श्रावणादित्रिकपतितं मल-मासञ्चन्द्रार्कौ जनयतः” । मिहिरः । “माधवादिषु षट्केषुमासि दर्शद्वयं यदा । द्विराषाढः स विज्ञेयः शेते तुश्रावणेऽच्युतः । “मिथुनोपगतो भानुरमावास्याद्वयं स्पृशेत् ।द्विराषाढः स विज्ञेयोविष्णुः स्वपिति कर्कटे” । “अमावा-स्याद्वयं तदन्त्यक्षणद्वयं स्पृशेत् संयुज्यात् न तन्मध्ये राश्य-न्तरसंयोग इत्यर्थः” । “कन्यासिंहकुलीरेषु यदा दर्शद्वयंभवेत् । आगामिनि तदा वर्षे कुलीरे माधवः स्वपेत्” ।यद्यपि “यां तिथिं समनुप्राप्य तुलां गच्छति भास्करः ।तयैव सर्वसंक्रान्तिर्यावन्मेषं न गच्छति” इति “राजमार्त्त-ण्डवचनात्तुलादिषण्मासे तिथिवृद्ध्यभावाद्वर्षे द्वादशवृद्धि-रनुपपन्ना तथापि “मध्ये विषुवतोर्भानुर्यान्यहानि तुवर्द्धयेत् । तैः सम्भूयाधिकोमासः पतत्येव त्रयोदशः”इति “गृह्यपरिशिष्टवाक्ये विषुवतोर्मेषतुलासंक्रान्त्योर्मध्येमेषादिषण्मास एव तिथिवृद्धिरुक्ता अहर्गणने मेषा-दिषण्मासे मन्दभुक्त्या सप्तदिनवृद्धिस्तुलादौ शीघ्रभुक्त्यादिनद्वयह्रासः” इति तथा च ज्योतिःशास्त्रम् “मेषादीना-महर्वृन्दं षण्णां सप्ताष्टचन्द्रकम् (१८७) । तुलादीनामष्ट-सप्तचन्द्रकन्तु (१७८) लिखेत् पृथक्” । “चन्द्र एकः “अङ्कस्यवामा गतिः” इत्यङ्कविदां समयात् व्युत्क्रमेणाङ्का बोध्याः ।तेन दिनवृद्धि ५ क्रमसञ्चयाभ्यां ६ मेषादिषट्के एव एका-दशतिथिवृद्धिः” । एवञ्च “गतेऽब्दद्वितये सार्द्धे पञ्चपक्षेदिनद्वये । दिवसस्याष्टमे भागे पतत्येकोऽधिमासकः” । इति“राजमार्त्तण्डोक्तः सप्तदशदिनाधिकाष्टमासाधिकवर्षद्वयेऽधि-मासः । स च सौरे मासि सप्तदशदिनोत्तरं चान्द्रमासलङ्घ-नासम्भवात् सावनमानेन ज्ञेयः इति” । सिद्धान्तशिरोमणौ तु४३२००००००० कल्पप्रमाणवर्षेषु १५९३३०००००एतन्मिता अधिमासाभवन्तीत्युक्तम् यथा “लक्षाहता देव-नवेषुचन्द्राः कल्पेऽधिमासाः कथिताः सुधीभिरिति” ।“अत्रोपपत्तिः प्रकृतास्तावद्रविमासास्तेभ्यश्चान्द्रमासा याव-द्भिरधिकास्तावन्तोऽधिमासा” इति । तदेवाह । “रवेःकोटिनिघ्नाः कृताऽष्टेन्दुबाणाः” ५१८४०००००००“सुराग्न्यब्धिरामेषवो लक्षनिघ्नाः ५३४३३३००००० ।शाशाङ्कस्य मासाः पृथक् सूर्य्यमासैर्विहीनास्तु कल्पेऽथवातेऽधिमासाः इति” ॥
इष्टवर्षेअधिमासानयनं तत्रैवोक्तं यथा“कथितकल्पगतार्कसमागणो रविगुणो गतमाससमन्वितः ।खदहनै (३०) र्गुणितस्तिथिसंयुतः पृथगतोऽधिकमाससमा-हतात् (१५९३३०००००) ॥
रविदिना (१५५५२००-००००००) प्तगताधिकमासकैः कृतदिनैः सहितो द्युगणोविधोः” इति । अत्र वासना कल्पगताब्दा द्वादशगुणितारविमासा जातास्ते चैत्रादिगतचान्द्रतुल्यैः सौरैरेव युता-स्त्रिंशद्गुणा इष्टमासप्रतिपदादिगततिथितुल्यैः सौरैरेवदिनैर्युताः एवन्ते सौरा जातास्तेभ्यः पृथक् स्थितेभ्योऽधि-मासानयनं त्रैराशिकेन, यदि कल्पसौरदिनैः कल्पाधिमासालभ्यन्ते तदैभिः किमिति फलम् गताधिमासाः । तै र्दिनी-कृतैः पृथक् स्थितः सौराहर्गणसहितश्चान्द्रो भवति यतःसौरचान्द्रान्तरमधिमासदिनान्येव” इति । सूर्य्यसिद्धान्तेऽप्यु-क्तम् । “भवन्ति शशिनो मासाः सूर्य्येन्दु भगणान्तरम् । रवि-मासोनितास्ते तु शेषाः स्युरधिमासकाः” इति ॥
सूर्य्यचन्द्र-भगणयोरन्तरं चन्द्रस्य मासा भवन्ति ते चान्द्रमासा रविमासोनिताः सन्तः शेषा अवशिष्टा ये चान्द्रमासास्तेऽधिकमासा एवभवन्ति नान्ये । अनेन चान्द्रत्वमधिमासानां स्पष्टीकृतम् ।अत्रोपपत्तिः । त्रिंशत्तिथ्यात्मकस्य रवीन्दुयुतिकालरूप-दर्शान्तावधेश्चान्द्रस्य, द्वादशराशिमितेन सूर्य्येन्द्वन्तरेणैव सिद्धिःकथमन्यथा दर्शान्ते जातस्य मन्दशीघ्रयोः सूर्य्येन्द्वोर्योगस्यपुनर्दर्शान्ते सम्भवः । द्वादशराश्यन्तरं त्वेकं भगणान्तरमतोभगणान्तरेण चान्द्रो मासः सिद्धः । सौरमासापेक्षयायदन्तरेण चान्द्रमासानामधिकत्वं त एवाधिमासा इति ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
