| YouTube Channel

अधार्म्मिकः (adhArmmikaH)

 
शब्दकल्पद्रुमः
Sanskrit
अधार्म्मिकः, त्रि, (धर्म्मं चरति धर्म्म + ठक् ।न धार्म्मिकः ।) अधर्म्मी अधर्म्मात्मा पापी ।तत्पर्य्यायः आधार्म्मिकः इति त्रिकाण्ड-शेषः
यथा, --“यस्तु पञ्च महायज्ञविहीनः निराकृतः ।अधार्म्मिकः स्याद्वृषलः अवकीर्णी क्षतव्रती”
इति जटाधरः
अतो नाधार्म्मिके वसेद्ग्रामे ।इति कुल्ल्रकभट्टश्च