| YouTube Channel

अधर्म्मः (adharmmaH)

 
शब्दकल्पद्रुमः
Sanskrit
अधर्म्मः,
पुं,
(ध्रियतेऽनेन धृ + मनिन् ततो नञ्-समासः, नञत्र विरोधार्थः ।) धर्म्मविरोधो सतु ब्रह्मणः पृष्ठाज्जातः इति श्रीभागवतं
पापं ।अपराधः श्रुतिस्मृतिविरुद्धाचारः यथा, --“अधर्म्मेणैधते राजन् ततो भद्राणि पश्यति ।ततः सपत्नान् जयति समूलस्तु विनश्यति
”इति महाभारतम् ।(“अधर्म्ममिदमत्यन्तं कथं भीष्मोऽनुमन्यते” ।इति महाभारतं
)