| YouTube Channel

अधरः (adharaH)

 
Hindi
Hindi
होंठ (मीटर)
Apte Hindi
Hindi
अधरः
पुं*
- नञ्+धृ+अच्
"नीचे का ओष्ठ, ओष्ठमात्र "
E Bharati Sampat
Sanskrit
(पुं) ध्रियते नञ्+धृङ्(अवस्थाने)+घः। ‘पुंसि सञ्ज्ञायां घः प्रायेण’ ३.३.११८। १.ओष्ठः, निम्नोष्ठः। ‘पिबसि रतिसर्वस्वमधरम्’ शाकु०१.२०। २.हीनवादी ‘अथाधरः। हीनवादिनि’ हैमः। ३.स्मरकूपः, योनिः। ‘अधरोऽवाच्यदेशश्च स्मरकूपकः’ त्रिका०। (वि) ४.हीनः। ५.निम्नः, अनूर्ध्वः। ‘अधरोऽनूर्ध्वहीनोष्ठे’ हैमः। ६.पूर्वतनः।
शब्दकल्पद्रुमः
Sanskrit
अधरः,
पुं,
(न ध्रियतेऽसौ धृ + अच् ततो नञ्-समासः ।) मुखावयवविशेषः नावो ठोँट इतिभाषा ओष्ठः उपर ठोँट इति भाषा तयोःपर्य्यायः रदनच्छदः दशनवासः इत्यमरः
परन्तु द्वयोरपि ओष्ठाधरप्रयोगः यथा रदन-च्छदौ दशनवाससी उभयत्र वर्त्तेते तथा ओष्ठा-धरावपि उभयत्रेति नयनानन्दः
रायमुकुटो-ऽप्याह उपरिवर्त्ती अधोवर्त्ती ओष्ठः अधरो-ऽप्येवं पुरुषस्य रक्ताधरः प्रशस्तः यथा, --“पाणिपादतलौ रक्तौ नेत्रान्तरनखानि ।तालुकोऽधरजिह्वा सप्त रक्तं प्रशस्यते
”स्त्रियास्तु यथा, --“पाटलावर्त्तुलः स्निग्धो रेखाभूषितमध्यभूः ।सीमन्तिनीनामधरो राज्ञां चैव प्रियो भवेत्
श्यामः स्थ्रलोऽधरोष्ठः स्यात् वैधव्यकलहप्रदः ।मसृणो मत्तकाशिन्याश्चोत्तरोष्ठः सुभोगदः
”इति सामुद्रकं
अधरः, त्रि, (न धरः नञ्समासः नीचः ।) अधः ।तलं हीनः अपकृष्टः इति मेदिनी
हीन-वादी इति हेमचन्द्रः
(यथा शाकुन्तले ।पिबसि रतिसर्व्वस्वमधरं ।)