| YouTube Channel

अद्वैतवादी (advaitavAdI)

 
E Bharati Sampat
Sanskrit
(पुं) (अद्वैतवादिन्) अद्वैतं ‘चिदेव सत्यं नान्यत् किञ्चन’ इति वदति अद्वैत+ वद(व्यक्तायां वाचि)+णिनिः। ‘सुप्यजातौ०’ ३.२.७८। १.ब्रह्मात्मैक्यवादी २.बुद्धः।
Wordnet
Sanskrit
Synonyms:
अद्वैतवादी, एकेश्वरवादी, अद्वैतवादिनी, एकेश्वरवादिनी
noun
यः अद्वैतसिद्धान्तम् अनुसरति।
"शङ्कराचार्यः अद्वैतवादी आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
अद्वैतवादी, [न्] त्रि, (अद्वैतं “चिदेव सत्यं नान्यत्किञ्चिन” इति वदति, अद्वैत + वद् + णिनि उप-पदसमासः ।) एकब्रह्मवादी तस्य मतं यथा, --ब्रह्मैव सत्यं प्रत्यक्षादिसिद्धं विश्वं ब्रह्मणि आरो-पितं यथा रज्जुः रज्जुस्वरूपाज्ञानात् सर्पवत्प्रतिभाति तथा ब्रह्मस्वरूपाज्ञानात् विश्वंवस्तुवत् प्रतिभाति प्रकृतिर्ज्जोवश्चापि पर्य्यवसानेब्रह्मैव ब्रह्मान्यत् सद्वस्तु नास्ति अत्र प्रमाणंशारीरिकसूत्रस्य शङ्कराचार्य्यकृतभाष्यतट्टीकाक-ल्पतरुभाषरत्नप्रभादि