| YouTube Channel

अद्वैतदर्शनम् (advaitadarzanam)

 
E Bharati Sampat
Sanskrit
(न) द्विधा इतं द्वीतम् द्वीतम् एव द्वैतं भेदः। द्वैतम् अद्वैतम् अद्वैतप्रतिपादकं दर्शनम् ब्रह्मात्मैक्यप्रतिपादकं वेदान्तदर्शनम् तच्च-‘ब्रह्मैव सत्यम् ।प्रत्यक्षादिसिद्धं विश्वं ब्रह्मणि आरॊपितम् यथा रज्जुः रज्जुस्वरूपाज्ञानात् सर्पवत् प्रतिभाति तथा ब्रह्मस्वरूपाज्ञानात् विश्वं वस्तुवत् प्रतिभाति प्रकृतिः जीवश्चापि पर्यवसाने ब्रह्मैव ब्रह्मान्यत् सद्वस्तु नास्ति ।’ इत्येवंरूपम्