| YouTube Channel

अद्वैतः (advaitaH)

 
E Bharati Sampat
Sanskrit
(पु) द्विधा इतः प्राप्तः। द्वितः एव द्वैतः। द्वित+अण्(स्वार्थे) द्वैतः। १.द्वैतरहितः विष्णुः। ‘विष्णुमानन्दमद्वैतम्’ गरुडपु०२३८ अ०। २.शिवावतारविशेषः। ‘अद्वैतो यः श्रीसदाशिवः’ गौरगणोद्देशदीपिका (वि) ३. भेदरहितः। (न) ४.द्विधा इतम् द्वितस्य भावः द्वैतं भेदः। ४.अभेदः। ‘अद्वैतं सुखदुःखयोः’ उ०रा०१.३९। ५. द्वैतं यस्य ब्रह्म ‘अद्वैततत्त्व इव सत्यतरेऽपि लोके’ नैष०।
शब्दकल्पद्रुमः
Sanskrit
अद्वैतः, त्रि, (द्विधाभेदमितः प्राप्तः द्वित + स्वार्थेअण् द्वेतः द्वितीयरहितः ।) एकः यथा, --यदद्वैतं ब्रह्मोपनिषदि तदप्यस्य तनुभा इतिश्रीचैतन्यचरितामृतं
अद्वैतः,
पुं,
(द्विधाभेदमितः प्राप्तः तृतीयातत्, प्रज्ञा-दित्वात् स्वार्थे अण् ततोभिन्नः नञ्समासः ।) द्वैत-रहितः विष्णः यथा, --“विष्णुमानन्दमद्वैतं विज्ञानं सर्व्वगं प्रभुं ।प्रणमामि सदा भक्त्या चेतसा हृदयालयं
”इति गारुडे २३८ अध्यायः
*
शिवावतार-विशेषः यथा, --“नित्यानन्दो भक्तरूपो व्रजे यः श्रीहलायुधः ।भक्तावतार आचार्य्योऽद्वैतो यः श्रीसदाशिवः
*
”तत्पित्रादिविवरणं यथा, --“महादेवस्य मित्रं यः कुवेरो गुह्यकेश्वरः ।कुवेरपण्डितः सोऽद्य जनकोऽस्य विदांवरः
पुरा कुवेरः कैलासे सिध्यसाध्यनिषेविते ।जजाप परमं मन्त्रं शैवं श्रीशिववल्लभः
ततो दयालुर्भगवान् वरं वृण्विति सोऽब्रवीत् ।ततः कुवेरो वरयामास त्वं मे सुतो भव
प्रार्थितस्तेन देवेशो वरदेशः सदाशिवः ।जन्मजन्मान्तरे पुत्त्र प्राप्स्यामि पुत्त्रतां तव
इति प्राप्य वरं कष्टं कियन्तं कालमास्थितः ।कार्य्यादीशवशात् सोऽद्याद्वैतस्य जनकोऽभवत्
योगमाया भगवती गृहिणी तस्य साम्प्रतं ।सीतारूपेणावतीर्णा श्रीनाम्नी तत्प्रकाशतः
तस्य पुत्त्रोऽच्युतानन्दः कृष चैतन्यवल्लभः ।श्रीमत्पण्डितगोस्वामिशिष्यप्रिय इति श्रुतं
यः कार्त्तिकेयः प्रागासीदिति जल्पन्ति केचन” ।इति गौरगणोद्देशदीपिका