अद्भुतं (adbhutaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiअद्भुत
शब्दकल्पद्रुमः
Sanskritअद्भुतं, अपूर्व्वं । तत्पर्य्यायः । विस्मयः २आश्चर्य्यं ३ चित्रं ४ । तद्विशिष्टे वाच्यलिङ्गं ।इत्यमरः ॥
अद्भुतं, त्रि, (अततीति अत् + क्विप् आकस्मिकार्थ-मव्ययं तथा भाति-भा + डुतच् ।) आश्चर्य्यं ।तत्पर्य्यायः । इङ्गं २ । इति जटाधरः ॥
* ॥
अथा-द्भुतं । अद्भुतसागरे आथर्व्वणाद्भुतवचनं । प्रकृति-विरुद्धमद्भुतमापदः प्राक् प्रबोधाय देवाः सृज-न्तीति । तेन आपज्ज्ञानाय भूम्यादीनां पूर्व्वंस्वभावप्रच्यवोदेवकर्तृकोऽद्भुत इति ॥
एवञ्च बुधो-दयपर्ब्बग्रहणादीनां गणितागतत्वेन प्रकृतानामपियदुत्पातत्वं तद्भाक्तं ।तत्कारणञ्च गर्गसंहितावार्हस्पत्ययोः ॥
“अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्म्मतः ।नरापचारान्नियतमुपसर्गः प्रवर्त्तते ॥
ततोऽपचारान्नियतमपवर्ज्जन्ति देवताः ।ताः सृजन्त्यद्भुतां स्तांस्तु दिव्यनाभसभूमिजान् ॥
त एव त्रिविधा लोके उत्पाता देवनिर्म्मिताः ।विचरन्ति विनाशाय रूपैः सम्बोधयन्ति च” ॥
तांश्च परं न दर्शयेदित्याह विष्णुः ॥
नोत्पातंदर्शयेदिति ॥
* ॥
तत्र वेलानक्षत्रमण्डलनिरूपणं ।यथा दीपिकायां ॥
“प्राक्द्वित्रिचतुर्भागेषु द्युनिशोरद्भुतेषु सर्व्वेषु ।अनिलाग्निशक्रवरुणा मण्डलपतयः शुभाशुभैश्च ॥
बेलामण्डलं ॥
* ॥
“अर्य्यम्नादिचतुष्कचन्द्रतुरगादित्येषु वायुर्भवेत् ।देवेज्याजविशाखयाम्ययुगले पित्रद्वये चानलः ॥
विश्वादित्रयधातृमैत्रयुगलेष्विन्द्रो भवेन्मण्डलः ।सर्पोपान्त्यमृगान्त्यमूलयुगलेशानेष्वपामीश्वरः ॥
पवनदहनौ नेष्टौ योगस्तयोरतिदुष्करः ।सुरपवरुणौ शस्तौ योगस्तयोरतिशोभनः ॥
सवरुणमरुन्मिश्रः शक्रस्तथाग्निसमायुतः ।फलविरहितः सेन्द्रो वायुस्तथाग्नियुतोऽम्बु पः ॥
यन्मण्डलेऽद्भुतं जातं शान्तिस्तद्देवताश्रया ।तथा शान्तिद्वयं कार्य्यं मण्डलद्वयजाद्भुते” ॥
* ॥
विष्णुधर्म्मोत्तरे ।“ग्रहर्क्षवैकृतं दिव्यं आन्तरीक्षं निबोध मे ।उल्कापातो दिशां दाहः परिवेशस्तथैव च ॥
गन्धर्व्वनगरञ्चैव वृष्टिश्च विकृता तथा ।एवमादीनि लोकेऽस्मिन् नाभसानि विनिर्द्दिशेत् ॥
चरस्थिरभवं भौमं भूकम्पमपि भूमिजं ।जलाशयानां वैकृत्यं भौमं तदपि कीर्त्तितं ॥
भौमञ्चाल्पफलं ज्ञेयं चिरेण परिपच्यते ।नाभसं मध्यफलदं मध्यकालफलप्रदं ॥
दिव्यं तीव्रफलं ज्ञेयं शीघ्रकारि तथैव च ॥
* ॥
शीतोष्णता विपर्य्यासऋतूनां रिपुजं भयं ॥
पुष्पे फले च विकृते राज्ञो मृत्युं तथादिशेत् ।अकालप्रभवा नार्य्यः कालातीताः प्रजास्तथा ॥
विकृताः प्रसवाश्चैव युग्मप्रसवनं तथा ।हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा त्रयः ॥
पशवः पक्षिणश्चैव तथैव च सरीसृपाः ।विनाशं तस्य देहस्य कुलस्य च विनिर्दिशेत् ॥
* ॥
प्रदोषे कुक्कुटारावो हेमन्ते चापि कोकिलाः ।अर्कोदयेऽर्काभिमुखश्वारावो नृभयं दिशेत् ॥
उलूको वसते यत्र निपतेद्वा तथा गृहे ।ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ॥
गृध्रः कङ्कः कपोतश्च उलूकः श्येन एब च ।चिल्लश्च चर्म्मचिल्लश्च भासः पाण्डर एव च ॥
गृहे यस्य पतन्त्येते गेहं तस्य विपद्यते ।पक्षान्मासात्तथा वर्षान्मृत्युः स्याद्गृहमेधिनः ॥
पत्न्याः पुत्त्रस्य वा मृत्युर्द्रव्यञ्चापि विनश्यति ।ब्राह्मणाय गृहं दत्त्वा दत्त्वा तन्मूल्यमेव वा ॥
गृह्णीयाद्यदि रोचेत शान्तिञ्चेमां प्रयोजयेत् ।मांसास्थीनि समादाय श्मशानाद्गृध्रवायसाः ॥
श्वा श्टगालोऽथ वा मध्ये पु रस्य प्रविशन्ति चेत् ।विकिरन्ति गृहादौ च श्मशानं सा मही भवेत् ॥
चौरेण हन्यते लोकः परचक्रसमागमः ।संग्रामश्च महाघोरो दुर्भिक्षं मरकं तथा ॥
अद्भुतानि प्रसूयन्ते तत्र देशस्य विद्रवः ।अकाले फलपुष्पाणि देशविद्रवकारणं” ॥
* ॥
मत्स्यपुराणे ।“अतिवृष्टिरनावृष्टिर्दुर्भिक्षादिभयं मतं ।अनृतौ तु दिनादूर्द्ध्वं वृष्टिर्ज्ञेया भयाय च ॥
निरभ्रे वाथ रात्रौ वा श्वेतं याम्योत्तरेण तु ।इन्द्रायुधं ततो दृष्ट्वा उल्कापातं तथैव च ॥
दिग्दाहपरिवेशौ च गन्धर्व्वनगरं तथा ॥
परचक्रभयं विद्यात् देशोपद्रवमेव च” ॥
भासो वनकुक्कुटः ॥
* ॥
कंसनिधनसूचनेहरिवंशः, --“वक्रमङ्गारकश्चक्रे चित्रायां घोरदर्शनः ।चलत्यपर्ब्बणि मही गिरीणां शिखराणिच” ॥
* ॥
बाणोत्पाते स एव ।“दक्षिणां दिशमास्थाय धूमकेतुः स्थितो भवेत् ।वक्रमङ्गारकश्चक्रे कृत्तिकासु भयङ्करः” ॥
* ॥
कृत्यचिन्तामणौ ।“त्थक्ताशौचविवेकतत्त्ववसुधा लोकाः क्षुधापीडिताः ।विप्रा वेदहतास्तथा प्रचलिता बह्वाशिनोदुःखिताः ।क्षौणी मन्दफला नृपाश्च विकलाःसंग्रामघोरा महीप्रेताघातदुरन्तपीडिततरा देवेज्यराह्वोर्युतौ ॥
रक्ते शस्त्रोद्योगो मांसास्थिवसादिभिर्मरकः ।धान्यहिरण्यत्वकफलकुसुमाद्ये वर्षिते भयं विद्यात् ॥
अङ्गारपांशुवर्षे विनाशमुपयाति तन्नगरं ।उपलं विना जलधरैर्विकृता वा यदा प्राणिनो वृष्ट्या ॥
छिद्रं वाप्यतिवृष्टिं शस्यानामीतिसंजननं” ॥
* ॥
बुधकौशिकसम्बादे ।“पल्ल्याः प्रपाते च फलं शरटस्य प्ररोहणे ।शीर्षे राजश्रियोऽव्याप्तिर्भाले चैश्वर्य्यमेव च ।कर्णयोर्भूषणावाप्तिर्नेत्रयोर्बन्धुदर्शनं ॥
नासिकायाञ्च सौगन्ध्यं वक्त्रे मिष्टान्नभोजनं ।कण्ठे चैव श्रियोऽवाप्तिर्भुजयोर्विभवो भवेत् ॥
धनलाभो बाहुमूले करयोर्धनवृद्धयः ।स्तनमूले च सौभाग्यं हृदि सौख्यविवर्द्धनं ॥
पृष्ठे नित्यं महीलाभः पार्श्वयोर्बन्धुदर्शनं ।कटिद्वये वस्त्रलाभो गुह्ये मृत्युसमागमः ॥
जङ्घे चार्थक्षयो नित्यं गुदे रोगभयं भवेत् ।उर्व्वोस्तु वाहनावाप्तिर्जानुजङ्घेऽर्थसंक्षयः ॥
वामदक्षिणयोः पादोर्भ्रमणं नियतं भवेत् ।पल्ल्याः प्ररोहणे चैव पतने शरटस्य च ॥
व्यत्यासाच्च फलञ्चैव तद्वदेवं प्रजायते ।पल्ल्याः प्ररोहणं रात्रौ शरटस्य प्रपातनं ॥
निधनार्थाय भवति व्याधिपोडाविपर्य्यये ।पतनानन्तरञ्चैवारोहणं यदि जायते ॥
पतने फलमुत्कृष्टं रोहणेऽन्यत् फलं भवेत् ।आरोहणञ्चोर्द्ध्वक्त्रे अधोवक्त्रे च पातनं ॥
भवेदिष्टफलं तस्य तत्फलं जायते ध्रुवं ।स्पृष्टमात्रेण यः मद्यः सचेलं जलमाविशेत् ॥
पञ्चगव्यप्राशनञ्च कुर्य्यादर्कावलोकनं ।पल्लीरूपं सुवर्णस्य रक्तवस्त्रेण वेष्टयेत् ॥
पूजयेद्गन्धपुष्पाद्यैस्तदग्रे पूर्णकुम्भके ।पञ्चगव्यं पञ्चरत्नं पञ्चामृतं सपल्लवं ॥
पञ्चवृक्षकषायञ्च निःक्षिप्यावाहयेत् ततः ।पूजयेद्गन्धपुष्पाद्यैर्लोकपालांस्तथा ग्रहान् ॥
मृत्युञ्जयेन मन्त्रेण समिद्भिः खादिरैः शुभैः ।तिलैर्व्याहृतिभिर्होममष्टोत्तरसहस्रकं” ॥
पल्ली गृहगोधिका । मृत्युञ्जयमन्त्रस्त्र्यम्बकमन्त्रः ।इति विद्याकरः ॥
* ॥
गर्गसंहितावार्हस्पत्ययोः ।“ये तेषु शान्तिं कुर्व्वन्ति न ते यान्ति पराभवं ।ये तु न प्रतिकुर्व्वन्ति क्रियया श्रद्धयान्विताः ॥
दाम्भिक्याद्वाविमोहाद्वा विनश्यन्त्येवतेऽचिरात्” ॥
* ॥
अत्र निमित्तनिश्चयवतोऽधिकारः । अन्यथादोषः । इत्याह मत्स्यपुराणं, --“भिन्नमण्डलवेलायां ये भवंन्त्यद्भुताः क्वचित् ।तत्र शान्तिद्वयं कार्य्यं निमित्ते सति नान्यथा ।निर्निमित्तकृता शान्तिर्निमित्तमुपपादयेत् ।एतच्च तत्तद्विशेषविहितशान्तिविषयं । अन्यथावेलामण्डलसन्देहे शान्तिर्न स्यात् साधारण-शान्तिश्च निर्विषया स्यात् । अतएवोक्तं योगि-याज्ञवल्क्येन, --“यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः ।तत्र तत्र तिलैर्होमो गायत्र्या समुदाहृतः ॥
गायत्र्या प्रयतः शुद्धः सर्व्वपापैः प्रमुच्यते ।शान्तिकामश्च जुहुयात् गायत्रीमक्षतैः शुचिः ॥
हन्तुकामश्च नृपतेर्घृतेन जुहुयात् शुचिः ।सावित्र्याशान्तिहोमांश्च कुर्य्यात् पर्ब्बसु नित्यशः ॥
प्रणवब्याहृतिभ्याञ्च स्वाहान्ता होमकर्म्मणि ।प्रतिलोमा प्रयोक्तब्या फट्कारान्ताभिचारके ॥
* ॥
विश्वामित्रेणापि निमित्तसन्देहे कृच्छ्रादीन्युक्तानि ।यथा, --“कृच्छ्रचान्द्रायणादीनि शुद्ध्यभ्युदयकारणं ।प्रकाशे च रहस्ये च संशयेऽनुक्तकेऽस्फुटे ॥
* ॥
मार्कण्डेयपुराणं ।“दिग्देशजनसामान्यं नृपसामान्यमात्मनि ।नक्षत्रग्रहसामान्यं नरो भुङ्क्ते शुभाशुभं ॥
परस्पराभिवादश्च ग्रहदोषेषु जायते” ॥
तथा, --“तस्माच्छान्तिपरः प्राज्ञो लोकवादरतस्तथा ॥
लोकवादांश्च शान्तीश्च ग्रहपीडासु कारयेत् ।भूदोहानुपवासांश्च शस्तं चैत्याभिवन्दनं ॥
कुर्य्यात् होमं तथा दानं श्राद्धं क्रोधविवर्जनं ।अद्रोहं सर्व्वभूतेषु मैत्रीं कुर्य्याच्च पण्डितः ॥
वर्जयेदुषतीं वाचमतिवादांस्तथैव च ।ग्रहपूजाञ्च कुर्व्वीत सर्व्वपीडासु मानवः ॥
एवं शाम्यन्त्यशेषाणि घोराणि द्विजसत्तम ।प्रयतानां मनुष्याणां ग्रहर्क्षोत्थान्यनेकशः” ॥
* ॥
लोकवादाश्च तत्रैवोक्ताः । यथा, --“आकाशाद्देवतानाञ्च देव्यादीनाञ्च सौहृदात् ।पृथिव्यां प्रतिलोके च लोकवादा इति स्मृताः ॥
”ते च सर्व्वभूतडाकिन्याद्यभिभवशान्त्यर्थं लौकि-कौषधमन्त्रादयः विषहरीमङ्गलचण्डिकागीतादयःचैत्यवृक्षादौ क्षेत्रपालदेवतापूजा च । तथा-चापस्तम्बः । स्त्रीभ्योऽवरवर्णेभ्यो धर्म्मशेषान्प्रतीयादित्येक इति । धर्म्मशेषान् श्रुतिस्मृति-सदाचारेष्वप्रसिद्धानिति नारायणोपाध्यायाः ।भूदोहश्च पात्रं विना भूमौ गोस्तनं निष्पोड्यदुग्धोत्सर्गः । चैत्यः पूज्यत्वेन ख्यातो ग्रामस्यवृक्षः । तथा च बाणोत्पाते हरिवंशः, --“अनेकशाखश्चैत्यश्च निपपात महीतले ।अर्च्चितः सर्व्वकन्याभिर्दानवानां महात्मनां ॥
”उषतीमकल्याणीं । अतिवादश्च पूज्यमतिक्रम्यभाषणं ॥
* ॥
मत्स्यपुराणं, --“काकस्यैकरवश्रावः प्रभाते दुःखदायकः ।काको मैथुनकासक्तः श्वेतो वा यदि दृश्यते ॥
उलूको वसते यत्र निपतेद्वा तथा गृहे ।ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ॥
* ॥
”वराहसंहितायां, --क्रीडानुरक्तो रतिमांसलुब्धोभीतो रुजार्त्तः पतितो विहङ्गः ।नासौ गृहस्थस्य विनाशहेतु-र्दोषः समुत्पद्यत आहुरार्य्याः ॥
* ॥
अद्भुतशान्तिमाह मात्स्ये, --“गृहे पक्षिविकारेषु कुर्य्याच्चामरतर्पणं ।देवाः कपोता इति वा जप्तव्यं सप्ततिर्द्विजैः ॥
गावश्च देया विविधा द्विजानांसकाञ्चना वस्त्रयुगोत्तरीयाः ।एवं कृते पापमुपैति शान्तिंमृगैर्द्विजैर्व्वा विनिवेदितं यत् ॥
”द्विजैः पक्षिभिः । अपिवा अन्यैरपि ॥
* ॥
भुज-बलभीमे ।“एको वृषस्त्रयो गावः सप्ताश्वा नव दन्तिनः ।सिंहप्रसूतिका गावः कथिताः स्वामिघातकाः ॥
* ॥
”मत्स्यपुराणे ।“अङ्गे दक्षिणभागे तु शस्तं विष्फुरणं भवेत् ।अप्रशस्तं तथा वामे पृष्ठस्य हृदयस्य च ॥
लाञ्छनं पिटकं चैव ज्ञेयं विष्फूर्जितं तथा ।विपर्य्ययेण विहितं सर्व्वं स्त्रीणां फलं तथा” ॥
* ॥
अनिष्टचिह्नोपगमे द्विजानां काय्यं सुवर्णेन चतर्पणं स्यात् । शङ्खः । “दुःस्वप्नानिष्टदर्शनादौ घृतंहिरण्यञ्च दद्यात्” इति । मात्स्ये ।“नमस्ते सर्व्वलोकेश नमस्ते भृगुनन्दन ।कवे सर्व्वार्थसिद्ध्यर्थं गृहाणार्घ्यं नमोऽस्तुते ॥
एवं शुक्रोदये कुर्व्वन् यात्रादिषु च भारत ।सर्व्वान् कामानवाप्नोति विष्णुलोके महीयते ॥
नमस्तेऽङ्गिरसां नाथ वाक्पतेऽथ वृहस्पते ।क्रूरग्रहैः पीडितानाममृताय नमो नमः ॥
संक्रान्तावपि कौन्तेय यात्रास्वभ्युदयेषु च ॥
कुर्व्वन् वृहस्पतेः पूजां सर्व्वान् कामान् समश्नुते” ॥
वैष्णवामृते व्यासः ।“ग्रहयज्ञैः शान्तिकैश्च किं क्लिश्यन्ति नरा द्विज ।महाशान्तिकरः श्रीमांस्तुलस्या पूजितो हरिः ॥
उत्पातान् दारुणान् पुंसां दुर्निमित्ताननेकशः ।तुलस्या पूजितो भक्त्या महाशान्तिकरो हरिः ॥
”अत्र ब्रह्मपुराणीयो मन्त्रः ।“नमस्ते बहुरूपाय विष्णवे परमात्मने स्वाहा”इति ॥
* ॥
छन्दोगपरिशिष्टं । अथातो रज-स्वलाभिगमने गोऽश्वभार्य्यासु गमने यमजजननेविजातीयजनने वा काककङ्कगृध्रवकश्येनभास-चिल्लकपोतानां गृहप्रवेशे मानुषस्योपरि विश्रा-मणे एषामेव क्रियमाणे गृहद्वारारोहणे वाद्भु-तेषु कल्पदृष्टेन विधिनाग्निमुपसमाधाय प्राय-श्चित्ताज्याहुतीर्ज्जुहोति अद्भुताय अग्नये स्वाहासोमाय विष्णवे रुद्राय वायवे सूर्य्याय मृत्यवेविश्वेभ्यो देवेभ्यः स्वाहेति स्थालीपाकवृतान्यदिति ॥
* ॥
कपोतं विशेषयति शौनकः ।“रक्तपादः कपोताख्यः अरण्यौकाः शुकच्छविः ।स चेच्छालां विशेच्छालासमीपञ्च व्रजेद्यदि ॥
अन्येषु गृहमध्ये वा वल्मीकस्योद्गमादिषु” ।कल्पदृष्टेन विधिना गृह्योक्तेन । प्रायश्चित्ताःज्याहुतीः अद्भुतदोषप्रशमनार्था सप्ताज्याहुतीः ।अद्भुताय अग्नये स्वाहा इत्यादिमन्त्रैः । तत्रस्थालीपाकेतिकर्त्तव्यतायां पायसचरुभिरेतेभ्योदेवेभ्यो जुहुयात् । छन्दोगपरिशिष्टं । पश्चात्घृतपायसेन ब्राह्मणान् भोजयित्वा गोवरं दत्त्वाशान्तिर्भवतीति । गोवरं गोश्रेष्ठं दक्षिणां तां गांकृत्वा दोषशान्तिर्भवतीति । तथाचोक्तं, --“गौर्विशिष्टतमा लीके वेदेष्वपि निगद्यते ।न ततोऽन्यद्वयं यस्मात् तस्माद्गौर्वरमुच्यते” ॥
* ॥
छन्दोगपरिशिष्टं । यस्त्वेषामन्यतममापन्नः प्राय-श्चित्तं न कुर्य्यात् तस्य गृहपतेर्म्मरणं सर्व्वस्वनाशोवा भवति तस्मात् प्रायश्चित्तं कर्त्तव्यं कर्म्मापवर्गेवामदेव्यगानं शान्तिः शान्तिरिति । अपवर्गेसमाप्तौ । वामदेव्यगानं शान्तिः कर्त्तव्या आवृत्ति-प्रकरणसमाप्त्यर्था । वार्हस्पत्ये । शमयन्त्यासप्ता-हात् कम्पादिकृतं निभित्तमाश्वेव । अतिवर्षणोःपवासव्रतदीक्षाजप्यहवनानि ॥
* ॥
वराहः ।ये च न दोषं जनयन्त्युत्पातांस्तानृतुस्वभावकृतान् ।ऋषिपुत्त्रकृतैः श्लोकैर्विद्यादेभिः समासोक्तैः ॥
तथा च मत्स्यपुराणं ।“वज्राशनिमहीकम्पसन्ध्यानिर्घातनिस्वनाः ।परिवेशरजोधूमरक्तार्कास्तमयोदयाः ॥
द्रुमेभ्योऽथ रसस्नेहमधुपुष्पफलोद्गमाः ।गोपक्षिमदवृद्धिश्च शिवाय मधुमाधवे ॥
* ॥
तारोल्कापातकलुषं कपिलार्केन्दुमण्डलं ।अनग्निज्वलनं स्फोटं धूमरेणुनिराकुलं ॥
रक्तपद्मारुणा सन्ध्या नभः क्षुब्धार्णवोपमं ।सरिताञ्चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥
* ॥
शक्रायुधपरीवेशौ विद्युच्छुष्कविरोहणं ।कम्पोद्वर्त्तनवैकृत्यं रसनं दरणं क्षितेः ॥
नद्युदपानसरसां वृष्ट्यर्द्ध्या भवनप्लवाः ।पतनञ्चाद्रिगेहानां वर्षासु न भयावहं” ॥
हरिवंशे वर्षावर्णनायां, --“क्वचित् कन्दरहासाढ्यं शिलीन्ध्राभरणं क्वचित्” ।इति दर्शनात् वर्षासु शिलीन्ध्रोद्गमो न भया-वहः ॥
* ॥
“दिव्यस्त्रीभूतगन्धर्व्वविमानाद्भुतदर्शनं ।ग्रहनक्षत्रताराणां दर्शनञ्च दिवाम्बरे ॥
गीतवादित्रनिर्घोषो वनपर्ब्बतसानुषु ।शस्यवृद्धिरसोत्पत्तिरपापाः शरदि स्मृताः ॥
* ॥
शीतानीलतुषारत्वं नर्द्दनं मृगपक्षिणां ।रक्षोयक्षादिसत्त्वानां दर्शनं वागमानुषी ॥
-दिशो धूमान्धकाराश्च शलभा वनपर्ब्बताः ।उच्चैः सूर्य्योदयास्तत्वं हेमन्ते शोभना मताः ॥
* ॥
हिमपातानिलोत्पातविरूपाद्भुतदर्शनं ।दृष्ट्वाञ्जनाभमाकाशं तारोल्कापातपिञ्जरं ॥
चित्रा गर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिणां ।पत्राङ्कुरलतानाञ्च विकाराः शिशिरे शुभाः ॥
ऋतुस्वभावजा ह्येते दृष्टाः स्वर्त्तौ शुभावहाः ।ऋतावन्यत्र चोत्पाता दृष्टास्ते भृशदारुणाः” ॥
* ॥
उन्मत्तानाञ्च या गाथाः शिशूनाञ्चेष्टितञ्च यत् ।स्त्रियो यच्च प्रभाषन्ते तत्र नास्ति व्यतिक्रमः ॥
पूर्व्वं चरति देवेषु पश्चाद्गच्छति नुइषान् ।नादेशिता वाग्वदति सत्या ह्येषा सरस्वती ॥
* ॥
वृहस्पतिः, --“ज्योतिर्ज्ञानं तथोत्पातमविदित्वा तुये नृणां ।श्रावयन्त्यर्थलोभेन विनेयास्तेऽपि यत्नतः ॥
विनेया दण्डनीयाः । इति ज्योतिस्तत्त्वं ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
