| YouTube Channel

अदृष्टः (adRSTaH)

 
E Bharati Sampat
Sanskrit
(वि) नास्ति दृष्टं यस्य १.दृष्टिहीनः। २.दृष्टप्रयोजनहीनः। ३.न दृष्टः। अपरिचितः। ४.अननुभूतः।(न)अदृष्टम् दृष्टम् १.अग्निजलादिद्वारा जातं भयम् ‘अदृष्टं वह्नितोयादि’ अमरः। २.पुन्यापुण्यरूपं भाग्यम् ‘अदृष्टमप्यर्थमदृष्टवैभवात् करोति सुप्तिर्जनदर्शनातिथिम्’ नैषध० (वि) दृष्टः। अकृतदर्शनः, अवीक्षितः। ‘अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता’ रसत०
शब्दकल्पद्रुमः
Sanskrit
अदृष्टः, त्रि, (न दृष्टः ।) अकृतदर्शनः अवीक्षितः ।“अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता” ।इति रसतरङ्गिण्यां भानुदत्तः