| YouTube Channel

अदृष्टं (adRSTaM)

 
शब्दकल्पद्रुमः
Sanskrit
अदृष्टं,
क्ली,
(न दृष्टं नञ्समासः ।) अग्निजलादि-द्वारा जातं भयं इत्यमरः
जन्मान्तरीय-संस्कारः भाग्यं यथा “अदृष्टमप्यर्थमदृष्ट-वैभवात् करोति सुप्तिर्जनदर्शनातिथिं
इतिश्रीहर्षः
तत्तु आत्मनोऽतीन्द्रियगुणः इदंवासनाजन्यं तत्त्वज्ञाननाश्यं भोगनाश्यञ्च ।धर्म्माधर्म्मभेदेन तत् द्विविधं धर्म्मस्तु स्वर्गादि-कारणं गङ्गास्नानयागादिजन्यः कर्म्मनाशाज-लादिस्पर्शनाश्यश्च अधर्म्मस्तु नरकादिकारणं ।प्रायश्चित्तादिनाश्यश्च इति भाषापरिच्छेदः