| YouTube Channel

अदाता (adAtA)

 
E Bharati Sampat
Sanskrit
(वि) दाता १.दानशक्तिरहितः। ‘कालेऽदाता पिता वाच्यः’ मनुः ९.४। २.कृपणः। (स्त्री) अदात्री अदातृ+ङीप् ‘ऋन्नेभ्यो ङीप्’४.१.६।
Wordnet
Sanskrit
Synonyms:
अदाता
adjective
यः दानी नास्ति, अथवा दानं ददाति।
"अदातुः गृहे चौर्यं संजातम्।"
शब्दकल्पद्रुमः
Sanskrit
अदाता, त्रि, (न दाता नञ्समासः दा + तृच् ।)कृपणः दानशक्तिरहितः यथा, --“अदाता पुरुषस्त्यागी स्वधनं त्यज्य गच्छति” ।इति प्राचीनाः
(“कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः ।मृते भर्त्तरि पुत्रस्तु वाच्योमातुररक्षिता”
इति मनुः
)