| YouTube Channel

अदर्शनः (adarzanaH)

 
E Bharati Sampat
Sanskrit
(वि) नास्ति दर्शनं यस्य १.दृष्टेः अगोचरः, दर्शनाविषयः। २.नेत्रहीनः। (न) दर्शनम् ३.अन्तर्धानम्, लोपः ‘अदर्शनं लोपः’ पा०१.१.६०। ‘विवृत्तिषु प्रत्ययादेरदर्शनम्’ ऋक्प्रा०। ४.विनाशः। ‘विनाशः स्याददर्शनम्’ अमरः। ५.अदृष्टिः, दर्शनाभावः। ‘अदर्शनं ते वीर भूयो मां तापयिष्यति’ रामा०।