| YouTube Channel

अदत्ता (adattA)

 
Monier Williams Cologne
English
अ॑-दत्ता
f.
an unmarried girl
Apte Hindi
Hindi
अदत्ता
स्त्री*
- -
अविवाहित कन्या
Shabdartha Kaustubha
Kannada
अदत्ता
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ವಿವಾಹವಾಗದ ಕನ್ಯೆ
L R Vaidya
English
adatta {% (I) a. (f. त्ता) %} 1. Not given
2. given unjustly
3. not given in marriage.
adattA {% f. %} An unmarried girl.
Wordnet
Sanskrit
Synonyms:
अनूढा, अविवाहिता, कन्यका, अदत्ता
noun
सा स्त्री यस्याः विवाहः सम्पन्नः।
"पितरौ अनूढायाः कन्यायाः विवाहस्य चिन्तां कुर्वतः।"
शब्दकल्पद्रुमः
Sanskrit
अदत्ता,
स्त्री,
(न दत्ता नोत्सृष्टा नञ्समासः, नञत्रनिषेधार्थः ।) अविवाहिता इति स्मृतिः
वाचस्पत्यम्
Sanskrit
अदत्ता स्त्री दा--क्त
न०
त० परिणयार्थमदत्तायां स्त्रियाम् ।“अदत्तायां मृतायान्तु त्र्यहाच्छुध्यन्ति बान्धवा” इतिस्मृतिः अदत्तमात्रे
त्रि०
अप्राशस्त्ये
न०
त० अदत्तन्तुभयक्रोधेत्याद्यभिहितलक्षणे दानाभासेनार्पिते दत्त्वापिप्रत्याहर्त्तुं योग्ये
त्रि०
तच्चोक्तं नारदेन यथा“अदत्तन्तु भयक्रोधशोकवेगरुजान्वितैः तथोत्कोचपरीहासव्यत्यासच्छलयोगतः
बालमूढास्वतन्त्रार्तमत्तो-न्मत्तापवर्जितम् कर्त्ता ममेदङ्कर्मेति प्रतिलाभेच्छया चयत् अपात्रे पात्रमित्युक्ते कार्ये वा धर्म्मसंहिते ।यद्दत्तं स्यादविज्ञानादत्तमिति तत् स्मृतमिति” अस्यार्थःभयेन वन्दिग्राहादिभ्यो दत्तम् क्रोधेन शत्र्वादिवैर-निर्य्यातनायान्यस्मै दत्तम् पुत्त्रविहीनतादिनिमित्त-शोकाविष्टेन दत्तम् उत्कोचेन कार्य्यप्रतिबन्धनिरा-सार्थमधिकृतेभ्यो दत्तम् परिहासेनोपहासेन दत्तम् ।एकः स्वद्रव्यमन्यस्मै ददात्यन्योऽपि तस्मै ददा-तीति दानव्यात्यासः छलयोगतः शतदानमभिसन्धायसहस्रमिति परिभाष्य ददाति बालेनाप्राप्तषोडशवयस्केनमूढेन, लोकवेदानभिज्ञेन अस्वतन्त्रेण पुत्त्रदासादिना, आर्त्तेन रोगाभिभूतेन, मत्तेन मदनीयप्रमत्तेन, उन्म-त्तेन, वातिकाद्युन्मादग्रस्तेन वा अपवर्जितं दत्तम् तथा-ऽयं मदीयमिदं कर्म्म करिष्यतीति प्रतिलाभेच्छया दत्तम् ।अचतुर्वेदाय चतुर्वेदोऽहमित्युक्तवते दत्तम् यज्ञं करि-ष्यामीति धनं लब्ध्वा द्यूतादौ विनियुञ्जानाय दत्तमित्येवंषोडशप्रकारमपि दत्तमदत्तमित्युच्यते प्रत्याहरणीयत्वात् ।आर्त्तदत्तस्यादत्तत्वं धर्म्मकार्य्यव्यतिरिक्तविषयम् “स्वस्थे-नार्त्तेन वा दत्तं श्रावितं धर्म्मकारणात् अदत्त्वा तु मृतेदाप्यस्तत्सुतो नात्र संशय” इति कात्यायनस्मरणात् ।तथेदमपरं संक्षिप्तार्थवचनं सर्वविवादसाधारणम् “योगा-धमनविक्रीतं योगदानप्रतिग्रहम् यस्य वाप्युपधिं पश्येत्तत् सर्वं विनिवर्त्तयेत्” इति योग उपाधिः योगेनो-पाधिविशेषेणाधिविक्रयदानप्रतिग्रहाः कृतास्तदुपाधिविगमेतान् विक्रयादीन् विनिवर्त्तयेदिति यः पुनः षोडश-प्रकारमप्यदत्तं गृह्णाति, यश्चादेयं प्रयच्छति, तयो-र्दण्डो नारदेनोक्तः “गृह्णात्यदत्तं यो लोभात् यश्चा-देयं प्रयच्छति अदेयदायको दण्ड्यस्तथाऽदत्तप्रतीच्छक” इति मिताक्षरा०